Pages


Showing posts with label Sanskrit. Show all posts
Showing posts with label Sanskrit. Show all posts

Lord Sarvadeva Kruta Sri Lakshmi Stotram in Sanskrit

Sarvadeva Kruta Sri Lakshmi Stotram – Sanskrit Lyrics (Text)

Sarvadeva Kruta Sri Lakshmi Stotram – Sanskrit Script

रचन: सर्व देवता

क्षमस्व भगवत्यम्ब क्षमा शीले परात्परे।
शुद्ध सत्व स्वरूपेच कोपादि परि वर्जिते॥

उपमे सर्व साध्वीनां देवीनां देव पूजिते।
त्वया विना जगत्सर्वं मृत तुल्यञ्च निष्फलम्।

सर्व सम्पत्स्वरूपात्वं सर्वेषां सर्व रूपिणी।
रासेश्वर्यधि देवीत्वं त्वत्कलाः सर्वयोषितः॥

कैलासे पार्वती त्वञ्च क्षीरोधे सिन्धु कन्यका।
स्वर्गेच स्वर्ग लक्ष्मी स्त्वं मर्त्य लक्ष्मीश्च भूतले॥

वैकुण्ठेच महालक्ष्मीः देवदेवी सरस्वती।
गङ्गाच तुलसीत्वञ्च सावित्री ब्रह्म लोकतः॥

कृष्ण प्राणाधि देवीत्वं गोलोके राधिका स्वयम्।
रासे रासेश्वरी त्वञ्च बृन्दा बृन्दावने वने॥

कृष्ण प्रिया त्वं भाण्डीरे चन्द्रा चन्दन कानने।
विरजा चम्पक वने शत शृङ्गेच सुन्दरी।

पद्मावती पद्म वने मालती मालती वने।
कुन्द दन्ती कुन्दवने सुशीला केतकी वने॥

कदम्ब माला त्वं देवी कदम्ब कानने2पिच।
राजलक्ष्मीः राज गेहे गृहलक्ष्मी र्गृहे गृहे॥

इत्युक्त्वा देवतास्सर्वाः मुनयो मनवस्तथा।
रूरूदुर्न म्रवदनाः शुष्क कण्ठोष्ठ तालुकाः॥

इति लक्ष्मी स्तवं पुण्यं सर्वदेवैः कृतं शुभम्।
यः पठेत्प्रातरुत्थाय सवैसर्वं लभेद्ध्रुवम्॥

अभार्यो लभते भार्यां विनीतां सुसुतां सतीम्।
सुशीलां सुन्दरीं रम्यामति सुप्रियवादिनीम्॥

पुत्र पौत्र वतीं शुद्धां कुलजां कोमलां वराम्।
अपुत्रो लभते पुत्रं वैष्णवं चिरजीविनम्॥

परमैश्वर्य युक्तञ्च विद्यावन्तं यशस्विनम्।
भ्रष्टराज्यो लभेद्राज्यं भ्रष्ट श्रीर्लभेते श्रियम्॥

हत बन्धुर्लभेद्बन्धुं धन भ्रष्टो धनं लभेत्॥
कीर्ति हीनो लभेत्कीर्तिं प्रतिष्ठाञ्च लभेद्ध्रुवम्॥

सर्व मङ्गलदं स्तोत्रं शोक सन्ताप नाशनम्।
हर्षानन्दकरं शाश्वद्धर्म मोक्ष सुहृत्पदम्॥

॥ इति सर्व देव कृत लक्ष्मी स्तोत्रं सम्पूर्णम् ॥

Lord Sri Devi Khadgamala Stotram in Sanskrit

Sri Devi Khadgamala Stotram – Sanskrit Lyrics (Text)

Sri Devi Khadgamala Stotram – Sanskrit Script

श्री देवी प्रार्थन
ह्रीङ्कारासनगर्भितानलशिखां सौः क्लीं कलां बिभ्रतीं
सौवर्णाम्बरधारिणीं वरसुधाधौतां त्रिनेत्रोज्ज्वलाम् ।
वन्दे पुस्तकपाशमङ्कुशधरां स्रग्भूषितामुज्ज्वलां
त्वां गौरीं त्रिपुरां परात्परकलां श्रीचक्रसञ्चारिणीम् ॥

अस्य श्री शुद्धशक्तिमालामहामन्त्रस्य, उपस्थेन्द्रियाधिष्ठायी वरुणादित्य ऋषयः देवी गायत्री छन्दः सात्विक ककारभट्टारकपीठस्थित कामेश्वराङ्कनिलया महाकामेश्वरी श्री ललिता भट्टारिका देवता, ऐं बीजं क्लीं शक्तिः, सौः कीलकं मम खड्गसिद्ध्यर्थे सर्वाभीष्टसिद्ध्यर्थे जपे विनियोगः, मूलमन्त्रेण षडङ्गन्यासं कुर्यात् ।

ध्यानम्
आरक्ताभान्त्रिणेत्रामरुणिमवसनां रत्नताटङ्करम्याम्
हस्ताम्भोजैस्सपाशाङ्कुशमदनधनुस्सायकैर्विस्फुरन्तीम् ।
आपीनोत्तुङ्गवक्षोरुहकलशलुठत्तारहारोज्ज्वलाङ्गीं
ध्यायेदम्भोरुहस्थामरुणिमवसनामीश्वरीमीश्वराणाम् ॥

लमित्यादिपञ्च पूजाम् कुर्यात्, यथाशक्ति मूलमन्त्रम् जपेत् ।

लं – पृथिवीतत्त्वात्मिकायै श्री ललितात्रिपुरसुन्दरी पराभट्टारिकायै गन्धं परिकल्पयामि – नमः
हं – आकाशतत्त्वात्मिकायै श्री ललितात्रिपुरसुन्दरी पराभट्टारिकायै पुष्पं परिकल्पयामि – नमः
यं – वायुतत्त्वात्मिकायै श्री ललितात्रिपुरसुन्दरी पराभट्टारिकायै धूपं परिकल्पयामि – नमः
रं – तेजस्तत्त्वात्मिकायै श्री ललितात्रिपुरसुन्दरी पराभट्टारिकायै दीपं परिकल्पयामि – नमः
वं – अमृततत्त्वात्मिकायै श्री ललितात्रिपुरसुन्दरी पराभट्टारिकायै अमृतनैवेद्यं परिकल्पयामि – नमः
सं – सर्वतत्त्वात्मिकायै श्री ललितात्रिपुरसुन्दरी पराभट्टारिकायै ताम्बूलादिसर्वोपचारान् परिकल्पयामि – नमः

श्री देवी सम्बोधनं (1)
ॐ ऐं ह्रीं श्रीम् ऐं क्लीं सौः ॐ नमस्त्रिपुरसुन्दरी,

न्यासाङ्गदेवताः (6)
हृदयदेवी, शिरोदेवी, शिखादेवी, कवचदेवी, नेत्रदेवी, अस्त्रदेवी,

तिथिनित्यादेवताः (16)
कामेश्वरी, भगमालिनी, नित्यक्लिन्ने, भेरुण्डे, वह्निवासिनी, महावज्रेश्वरी, शिवदूती, त्वरिते, कुलसुन्दरी, नित्ये, नीलपताके, विजये, सर्वमङ्गले, ज्वालामालिनी, चित्रे, महानित्ये,

दिव्यौघगुरवः (7)
परमेश्वर, परमेश्वरी, मित्रेशमयी, उड्डीशमयी, चर्यानाथमयी, लोपामुद्रमयी, अगस्त्यमयी,

सिद्धौघगुरवः (4)
कालतापशमयी, धर्माचार्यमयी, मुक्तकेशीश्वरमयी, दीपकलानाथमयी,

मानवौघगुरवः (8)
विष्णुदेवमयी, प्रभाकरदेवमयी, तेजोदेवमयी, मनोजदेवमयि, कल्याणदेवमयी, वासुदेवमयी, रत्नदेवमयी, श्रीरामानन्दमयी,

श्रीचक्र प्रथमावरणदेवताः
अणिमासिद्धे, लघिमासिद्धे, गरिमासिद्धे, महिमासिद्धे, ईशित्वसिद्धे, वशित्वसिद्धे, प्राकाम्यसिद्धे, भुक्तिसिद्धे, इच्छासिद्धे, प्राप्तिसिद्धे, सर्वकामसिद्धे, ब्राह्मी, माहेश्वरी, कौमारि, वैष्णवी, वाराही, माहेन्द्री, चामुण्डे, महालक्ष्मी, सर्वसङ्क्षोभिणी, सर्वविद्राविणी, सर्वाकर्षिणी, सर्ववशङ्करी, सर्वोन्मादिनी, सर्वमहाङ्कुशे, सर्वखेचरी, सर्वबीजे, सर्वयोने, सर्वत्रिखण्डे, त्रैलोक्यमोहन चक्रस्वामिनी, प्रकटयोगिनी,

श्रीचक्र द्वितीयावरणदेवताः
कामाकर्षिणी, बुद्ध्याकर्षिणी, अहङ्काराकर्षिणी, शब्दाकर्षिणी, स्पर्शाकर्षिणी, रूपाकर्षिणी, रसाकर्षिणी, गन्धाकर्षिणी, चित्ताकर्षिणी, धैर्याकर्षिणी, स्मृत्याकर्षिणी, नामाकर्षिणी, बीजाकर्षिणी, आत्माकर्षिणी, अमृताकर्षिणी, शरीराकर्षिणी, सर्वाशापरिपूरक चक्रस्वामिनी, गुप्तयोगिनी,

श्रीचक्र तृतीयावरणदेवताः
अनङ्गकुसुमे, अनङ्गमेखले, अनङ्गमदने, अनङ्गमदनातुरे, अनङ्गरेखे, अनङ्गवेगिनी, अनङ्गाङ्कुशे, अनङ्गमालिनी, सर्वसङ्क्षोभणचक्रस्वामिनी, गुप्ततरयोगिनी,

श्रीचक्र चतुर्थावरणदेवताः
सर्वसङ्क्षोभिणी, सर्वविद्राविनी, सर्वाकर्षिणी, सर्वह्लादिनी, सर्वसम्मोहिनी, सर्वस्तम्भिनी, सर्वजृम्भिणी, सर्ववशङ्करी, सर्वरञ्जनी, सर्वोन्मादिनी, सर्वार्थसाधिके, सर्वसम्पत्तिपूरिणी, सर्वमन्त्रमयी, सर्वद्वन्द्वक्षयङ्करी, सर्वसौभाग्यदायक चक्रस्वामिनी, सम्प्रदाययोगिनी,

श्रीचक्र पञ्चमावरणदेवताः
सर्वसिद्धिप्रदे, सर्वसम्पत्प्रदे, सर्वप्रियङ्करी, सर्वमङ्गलकारिणी, सर्वकामप्रदे, सर्वदुःखविमोचनी, सर्वमृत्युप्रशमनि, सर्वविघ्ननिवारिणी, सर्वाङ्गसुन्दरी, सर्वसौभाग्यदायिनी, सर्वार्थसाधक चक्रस्वामिनी, कुलोत्तीर्णयोगिनी,

श्रीचक्र षष्टावरणदेवताः
सर्वज्ञे, सर्वशक्ते, सर्वैश्वर्यप्रदायिनी, सर्वज्ञानमयी, सर्वव्याधिविनाशिनी, सर्वाधारस्वरूपे, सर्वपापहरे, सर्वानन्दमयी, सर्वरक्षास्वरूपिणी, सर्वेप्सितफलप्रदे, सर्वरक्षाकरचक्रस्वामिनी, निगर्भयोगिनी,

श्रीचक्र सप्तमावरणदेवताः
वशिनी, कामेश्वरी, मोदिनी, विमले, अरुणे, जयिनी, सर्वेश्वरी, कौलिनि, सर्वरोगहरचक्रस्वामिनी, रहस्ययोगिनी,

श्रीचक्र अष्टमावरणदेवताः
बाणिनी, चापिनी, पाशिनी, अङ्कुशिनी, महाकामेश्वरी, महावज्रेश्वरी, महाभगमालिनी, सर्वसिद्धिप्रदचक्रस्वामिनी, अतिरहस्ययोगिनी,

श्रीचक्र नवमावरणदेवताः
श्री श्री महाभट्टारिके, सर्वानन्दमयचक्रस्वामिनी, परापररहस्ययोगिनी,

नवचक्रेश्वरी नामानि
त्रिपुरे, त्रिपुरेशी, त्रिपुरसुन्दरी, त्रिपुरवासिनी, त्रिपुराश्रीः, त्रिपुरमालिनी, त्रिपुरसिद्धे, त्रिपुराम्बा, महात्रिपुरसुन्दरी,

श्रीदेवी विशेषणानि – नमस्कारनवाक्षरीच
महामहेश्वरी, महामहाराज्ञी, महामहाशक्ते, महामहागुप्ते, महामहाज्ञप्ते, महामहानन्दे, महामहास्कन्धे, महामहाशये, महामहा श्रीचक्रनगरसाम्राज्ञी, नमस्ते नमस्ते नमस्ते नमः ।

फलश्रुतिः
एषा विद्या महासिद्धिदायिनी स्मृतिमात्रतः ।
अग्निवातमहाक्षोभे राजाराष्ट्रस्यविप्लवे ॥

लुण्ठने तस्करभये सङ्ग्रामे सलिलप्लवे ।
समुद्रयानविक्षोभे भूतप्रेतादिके भये ॥

अपस्मारज्वरव्याधिमृत्युक्षामादिजेभये ।
शाकिनी पूतनायक्षरक्षःकूष्माण्डजे भये ॥

मित्रभेदे ग्रहभये व्यसनेष्वाभिचारिके ।
अन्येष्वपि च दोषेषु मालामन्त्रं स्मरेन्नरः ॥

तादृशं खड्गमाप्नोति येन हस्तस्थितेनवै ।
अष्टादशमहाद्वीपसम्राड्भोक्ताभविष्यति ॥

सर्वोपद्रवनिर्मुक्तस्साक्षाच्छिवमयोभवेत् ।
आपत्काले नित्यपूजां विस्तारात्कर्तुमारभेत् ॥

एकवारं जपध्यानम् सर्वपूजाफलं लभेत् ।
नवावरणदेवीनां ललिताया महौजनः ॥

एकत्र गणनारूपो वेदवेदाङ्गगोचरः ।
सर्वागमरहस्यार्थः स्मरणात्पापनाशिनी ॥

ललितायामहेशान्या माला विद्या महीयसी ।
नरवश्यं नरेन्द्राणां वश्यं नारीवशङ्करम् ॥

अणिमादिगुणैश्वर्यं रञ्जनं पापभञ्जनम् ।
तत्तदावरणस्थायि देवताबृन्दमन्त्रकम् ॥

मालामन्त्रं परं गुह्यं परं धाम प्रकीर्तितम् ।
शक्तिमाला पञ्चधास्याच्छिवमाला च तादृशी ॥

तस्माद्गोप्यतराद्गोप्यं रहस्यं भुक्तिमुक्तिदम् ॥

॥ इति श्री वामकेश्वरतन्त्रे उमामहेश्वरसंवादे देवीखड्गमालास्तोत्ररत्नं समाप्तम् ॥

Lord Devi Mahatmyam Chamundeswari Mangalam in Sanskrit

Devi Mahatmyam Chamundeswari Mangalam – Sanskrit Lyrics (Text)

Devi Mahatmyam Chamundeswari Mangalam – Sanskrit Script

रचन: ऋषि मार्कण्डेय

श्री शैलराज तनये चण्ड मुण्ड निषूदिनी
मृगेन्द्र वाहने तुभ्यं चामुण्डायै सुमङ्गलं।1।

पञ्च विंशति सालाड्य श्री चक्रपुअ निवासिनी
बिन्दुपीठ स्थिते तुभ्यं चामुण्डायै सुमङ्गलं॥2॥

राज राजेश्वरी श्रीमद् कामेश्वर कुटुम्बिनीं
युग नाध तते तुभ्यं चामुण्डायै सुमङ्गलं॥3॥

महाकाली महालक्ष्मी महावाणी मनोन्मणी
योगनिद्रात्मके तुभ्यं चामूण्डायै सुमङ्गलं॥4॥

मत्रिनी दण्डिनी मुख्य योगिनी गण सेविते।
भण्ड दैत्य हरे तुभ्यं चामूण्डायै सुमङ्गलं॥5॥

निशुम्भ महिषा शुम्भे रक्तबीजादि मर्दिनी
महामाये शिवेतुभ्यं चामूण्डायै सुमङ्गलं॥

काल रात्रि महादुर्गे नारायण सहोदरी
विन्ध्य वासिनी तुभ्यं चामूण्डायै सुमङ्गलं॥

चन्द्र लेखा लसत्पाले श्री मद्सिंहासनेश्वरी
कामेश्वरी नमस्तुभ्यं चामूण्डायै सुमङ्गलं॥

प्रपञ्च सृष्टि रक्षादि पञ्च कार्य ध्रन्धरे
पञ्चप्रेतासने तुभ्यं चामूण्डायै सुमङ्गलं॥

मधुकैटभ संहत्रीं कदम्बवन वासिनी
महेन्द्र वरदे तुभ्यं चामूण्डायै सुमङ्गलं॥

निगमागम संवेद्ये श्री देवी ललिताम्बिके
ओड्याण पीठगदे तुभ्यं चामूण्डायै सुमङ्गलं॥12॥

पुण्देषु खण्ड दण्ड पुष्प कण्ठ लसत्करे
सदाशिव कले तुभ्यं चामूण्डायै सुमङ्गलं॥12॥

कामेश भक्त माङ्गल्य श्रीमद् त्रिपुर सुन्दरी।
सूर्याग्निन्दु त्रिलोचनी तुभ्यं चामूण्डायै सुमङ्गलं॥13॥

चिदग्नि कुण्ड सम्भूते मूल प्रकृति स्वरूपिणी
कन्दर्प दीपके तुभ्यं चामूण्डायै सुमङ्गलं॥14॥

महा पद्माटवी मध्ये सदानन्द द्विहारिणी
पासाङ्कुश धरे तुभ्यं चामूण्डायै सुमङ्गलं॥15॥

सर्वमन्त्रात्मिके प्राज्ञे सर्व यन्त्र स्वरूपिणी
सर्वतन्त्रात्मिके तुभ्यं चामूण्डायै सुमङ्गलं॥16॥

सर्व प्राणि सुते वासे सर्व शक्ति स्वरूपिणी
सर्वा भिष्ट प्रदे तुभ्यं चामूण्डायै सुमङ्गलं॥17॥

वेदमात महाराज्ञी लक्ष्मी वाणी वशप्रिये
त्रैलोक्य वन्दिते तुभ्यं चामूण्डायै सुमङ्गलं॥18॥

ब्रह्मोपेन्द्र सुरेन्द्रादि सम्पूजित पदाम्बुजे
सर्वायुध करे तुभ्यं चामूण्डायै सुमङ्गलं॥19॥

महाविध्या सम्प्रदायै सविध्येनिज वैबह्वे।
सर्व मुद्रा करे तुभ्यं चामूण्डायै सुमङ्गलं॥20॥

एक पञ्चाशते पीठे निवासात्म विलासिनी
अपार महिमे तुभ्यं चामूण्डायै सुमङ्गलं॥21॥

तेजो मयीदयापूर्णे सच्चिदानन्द रूपिणी
सर्व वर्णात्मिके तुभ्यं चामूण्डायै सुमङ्गलं॥22॥

हंसारूढे चतुवक्त्रे ब्राह्मी रूप समन्विते
धूम्राक्षस् हन्त्रिके तुभ्यं चामूण्डायै सुमङ्गलं॥23॥

माहेस्वरी स्वरूपयै पञ्चास्यै वृषभवाहने।
सुग्रीव पञ्चिके तुभ्यं चामूण्डायै सुमङ्गलं॥24॥

मयूर वाहे ष्ट् वक्त्रे क्ॐअरी रूप शोभिते
शक्ति युक्त करे तुभ्यं चामूण्डायै सुमङ्गलं॥

पक्षिराज समारूढे शङ्ख चक्र लसत्करे।
वैष्नवी सञ्ज्ञिके तुभ्यं चामूण्डायै सुमङ्गलं॥

वाराही महिषारूढे घोर रूप समन्विते
दंष्त्रायुध धरे तुभ्यं चामूण्डायै सुमङ्गलं॥

गजेन्द्र वाहना रुढे इन्द्राणी रूप वासुरे
वज्रायुध करे तुभ्यं चामूण्डायै सुमङ्गलं॥

चतुर्भुजे सिंह वाहे जता मण्डिल मण्डिते
चण्डिके शुभगे तुभ्यं चामूण्डायै सुमङ्गलं॥

दंश्ट्रा कराल वदने सिंह वक्त्रे चतुर्भुजे
नारसिंही सदा तुभ्यं चामूण्डायै सुमङ्गलं॥

ज्वल जिह्वा करालास्ये चण्डकोप समन्विते
ज्वाला मालिनी तुभ्यं चामूण्डायै सुमङ्गलं॥

भृगिणे दर्शितात्मीय प्रभावे परमेस्वरी
नन रूप धरे तुभ्य चामूण्डायै सुमङ्गलं॥

गणेश स्कन्द जननी मातङ्गी भुवनेश्वरी
भद्रकाली सदा तुब्यं चामूण्डायै सुमङ्गलं॥

अगस्त्याय हयग्रीव प्रकटी कृत वैभवे
अनन्ताख्य सुते तुभ्यं चामूण्डायै सुमङ्गलं॥

॥इति श्री चामुण्डेश्वरी मङ्गलं सम्पूर्णं॥

Lord Devi Mahatmyam Mangala Haarati in Sanskrit

Devi Mahatmyam Mangala Haarati – Sanskrit Lyrics (Text)

Devi Mahatmyam Mangala Haarati – Sanskrit Script

रचन: ऋषि मार्कण्डेय

श्री चक्र पुर मन्दु स्थिरमैन श्री ललित पसिडि पादालकिदे नीराजनं
बङ्गारुतल्लिकिदे नीराजनं

बङ्गारु हारालु सिङ्गारमोलकिञ्चु अम्बिका हृदयकु नीराजनं
बङ्गारुतल्लिकिदे नीराजनं

श्री गौरि श्रीमात श्रीमहाराज्ञि श्री सिंहासनेश्वरिकि नीराजनं
बङ्गारुतल्लिकिदे नीराजनं

कल्पतरुवै मम्मु कापाडु करमुलकु कवकम्बु कासुलतो नीराजनं
बङ्गारुतल्लिकिदे नीराजनं

पाशाङ्कुश पुष्प बाणचापधरिकि परम पावनमैन नीराजनं
बङ्गारुतल्लिकिदे नीराजनं

कान्ति किरणालतो कलिकि मेडलो मेरिसे कल्याण सूत्रम्मु नीराजनं
बङ्गारुतल्लिकिदे नीराजनं

चिरुनव्वु लोलिकिञ्चु श्रीदेवि अधरान शतको टि नक्षत्र नीराजनं
बङ्गारुतल्लिकिदे नीराजनं

कलुवरेकुल वण्टि कन्नुल तल्लि श्रीराजराजेश्वरिकि नीराजनं
बङ्गारुतल्लिकिदे नीराजनं

मुदमार मोमुन मुच्चटग दरियिञ्चु कस्तूरि कुङ्कुमकु नीराजनं
बङ्गारुतल्लिकिदे नीराजनं

चन्द्रवङ्कनिकिदे नीराजनं

शुक्रवारमुनाडु शुभमुलोसगे तल्लि श्री महालक्ष्मि किदे नीराजनं
बङ्गारुतल्लिकिदे नीराजनं

मुग्गुरम्मलकुनु मूलमगु पेद्दम्म मुत्यालतो नित्य नीराजनं
बङ्गारुतल्लिकिदे नीराजनं

शृङ्गेरि पीठान सुन्दराकारिणि सौन्दर्यलहरिकिदे नीराजनं
बङ्गारुतल्लिकिदे नीराजनं

सकल हृदयाललो बुद्धिप्रेरण जेयु तल्लि गायत्रिकिदे नीराजनं
बङ्गारुतल्लिकिदे नीराजनं

दान नरसिंहुनि दयतोड रक्षिञ्चु दयगल तल्लिकिदे नीराजनं
आत्मार्पणतो नित्य नीराजनं

श्री चक्र पुर मन्दु स्थिरमैन श्री ललित पसिडि पादालकिदे नीराजनं
बङ्गारुतल्लिकिदे नीराजनं

Lord Devi Mahatmyam Dvaatrisannaamaavali in Sanskrit

Devi Mahatmyam Dvaatrisannaamaavali – Sanskrit Lyrics (Text)

Devi Mahatmyam Dvaatrisannaamaavali – Sanskrit Script

रचन: ऋषि मार्कण्डेय

दुर्गा दुर्गार्ति शमनी दुर्गापद्विनिवारिणी।
दुर्गामच्छेदिनी दुर्ग साधिनी दुर्ग नाशिनी
दुर्ग मज्ञानदा दुर्गदैत्यलोकदवानला
दुर्गमा दुर्गमालोका दुर्गमात्मस्वरूपिणी
दुर्गमार्गप्रदा दुर्गमविद्या दुर्गमाश्रिता
दुर्गमज्ञानसंस्थाना दुर्गमध्यानभासिनी
दुर्गमोहा दुर्गमगा दुर्गमार्थस्वरूपिणी
दुर्गमासुरसंहन्त्री दुर्गमायुधधारिणी
दुर्गमाङ्गी दुर्गमाता दुर्गम्या दुर्गमेश्वरी
दुर्गभीमा दुर्गभामा दुर्लभा दुर्गधारिणी
नामावली ममायास्तू दुर्गया मम मानसः
पठेत् सर्व भयान्मुक्तो भविष्यति न संशयः

Lord Devi Mahatmyam Aparaadha Kshamapana Stotram in Sanskrit

Devi Mahatmyam Aparaadha Kshamapana Stotram – Sanskrit Lyrics (Text)

Devi Mahatmyam Aparaadha Kshamapana Stotram – Sanskrit Script

रचन: ऋषि मार्कण्डेय

अपराधशतं कृत्वा जगदम्बेति चोच्चरेत्।
यां गतिं समवाप्नोति न तां ब्रह्मादयः सुराः ॥1॥

सापराधो‌உस्मि शरणां प्राप्तस्त्वां जगदम्बिके।
इदानीमनुकम्प्यो‌உहं यथेच्छसि तथा कुरु ॥2॥

अज्ञानाद्विस्मृतेभ्रान्त्या यन्न्यूनमधिकं कृतं।
तत्सर्व क्षम्यतां देवि प्रसीद परमेश्वरी ॥3॥

कामेश्वरी जगन्माताः सच्चिदानन्दविग्रहे।
गृहाणार्चामिमां प्रीत्या प्रसीद परमेश्वरी ॥4॥

सर्वरूपमयी देवी सर्वं देवीमयं जगत्।
अतो‌உहं विश्वरूपां त्वां नमामि परमेश्वरीं ॥5॥

पूर्णं भवतु तत् सर्वं त्वत्प्रसादान्महेश्वरी
यदत्र पाठे जगदम्बिके मया विसर्गबिन्द्वक्षरहीनमीरितम्। ॥6॥

तदस्तु सम्पूर्णतं प्रसादतः सङ्कल्पसिद्धिश्च सदैव जायतां ॥7॥

भक्त्याभक्त्यानुपूर्वं प्रसभकृतिवशात् व्यक्तमव्यक्तमम्ब ॥8॥

तत् सर्वं साङ्गमास्तां भगवति त्वत्प्रसादात् प्रसीद ॥9॥

प्रसादं कुरु मे देवि दुर्गेदेवि नमो‌உस्तुते ॥10॥

॥इति अपराध क्षमापण स्तोत्रं समाप्तं॥

Lord Devi Mahatmyam Devi Suktam in Sanskrit

Devi Mahatmyam Devi Suktam – Sanskrit Lyrics (Text)

Devi Mahatmyam Devi Suktam – Sanskrit Script

रचन: ऋषि मार्कण्डेय

ॐ अ॒हं रु॒द्रेभि॒र्वसु॑भिश्चराम्य॒हमा॓दि॒त्यैरु॒त वि॒श्वदे॓वैः ।
अ॒हं मि॒त्रावरु॑णो॒भा बि॑भर्म्य॒हमि॓न्द्रा॒ग्नी अ॒हम॒श्विनो॒भा ॥1॥

अ॒हं सोम॑माह॒नसं॓ बिभर्म्य॒हं त्वष्टा॓रमु॒त पू॒षणं॒ भगम्॓ ।
अ॒हं द॑धामि॒ द्रवि॑णं ह॒विष्म॑ते सुप्रा॒व्ये॒ ये॑ ‍3 यज॑मानाय सुन्व॒ते ॥2॥

अ॒हं राष्ट्री॓ स॒ङ्गम॑नी॒ वसू॓नां चिकि॒तुषी॓ प्रथ॒मा य॒ज्ञिया॓नाम् ।
तां मा॓ दे॒वा व्य॑दधुः पुरु॒त्रा भूरि॑स्थात्रां॒ भू~र्या॓वे॒शयन्ती॓म् ॥3॥

मया॒ सो अन्न॑मत्ति यो वि॒पश्य॑ति॒ यः प्राणि॑ति॒ य ईं॓ शृ॒णोत्यु॒क्तम् ।
अ॒म॒न्त॒वो॒मान्त उप॑क्षियन्ति॒ श्रु॒धि श्रु॑तं श्रद्धि॒वं ते॓ वदामि ॥4॥

अ॒हमे॒व स्व॒यमि॒दं वदा॑मि॒ जुष्टं॓ दे॒वेभि॑रु॒त मानु॑षेभिः ।
यं का॒मये॒ तं त॑मु॒ग्रं कृ॑णोमि॒ तं ब्र॒ह्माणं॒ तमृषिं॒ तं सु॑मे॒धाम् ॥5॥

अ॒हं रु॒द्राय॒ धनु॒रात॑नोमि ब्रह्म॒द्विषे॒ शर॑वे हन्त॒ वा उ॑ ।
अ॒हं जना॓य स॒मदं॓ कृणोम्य॒हं द्यावा॓पृथि॒वी आवि॑वेश ॥6॥

अ॒हं सु॑वे पि॒तर॑मस्य मू॒र्धन् मम॒ योनि॑र॒प्स्व॒न्तः स॑मु॒द्रे ।
ततो॒ विति॑ष्ठे॒ भुव॒नानु॒ विश्वो॒तामूं द्यां व॒र्ष्मणोप॑ स्पृशामि ॥7॥

अ॒हमे॒व वात॑ इव॒ प्रवा॓म्या॒-रभ॑माणा॒ भुव॑नानि॒ विश्वा॓ ।
प॒रो दि॒वापर॒ ए॒ना पृ॑थि॒व्यै-ताव॑ती महि॒ना सम्ब॑भूव ॥8॥

ॐ शान्तिः॒ शान्तिः॒ शान्तिः॑ ॥

॥ इति ऋग्वेदोक्तं देवीसूक्तं समाप्तम् ॥
॥तत् सत् ॥

Lord Devi Mahatmyam Durga Saptasati Chapter 13 in Sanskrit

Devi Mahatmyam Durga Saptasati Chapter 13 – Sanskrit Lyrics (Text)

Devi Mahatmyam Durga Saptasati Chapter 13 – Sanskrit Script

रचन: ऋषि मार्कण्डेय

सुरथवैश्ययोर्वरप्रदानं नाम त्रयोदशो‌உध्यायः ॥

ध्यानं
ॐ बालार्क मण्डलाभासां चतुर्बाहुं त्रिलोचनाम् ।
पाशाङ्कुश वराभीतीर्धारयन्तीं शिवां भजे ॥

ऋषिरुवाच ॥ 1 ॥

एतत्ते कथितं भूप देवीमाहात्म्यमुत्तमम् ।
एवम्प्रभावा सा देवी ययेदं धार्यते जगत् ॥2॥

विद्या तथैव क्रियते भगवद्विष्णुमायया ।
तया त्वमेष वैश्यश्च तथैवान्ये विवेकिनः ॥3॥

तया त्वमेष वैश्यश्च तथैवान्ये विवेकिनः।
मोह्यन्ते मोहिताश्चैव मोहमेष्यन्ति चापरे ॥4॥

तामुपैहि महाराज शरणं परमेश्वरीं।
आराधिता सैव नृणां भोगस्वर्गापवर्गदा ॥5॥

मार्कण्डेय उवाच ॥6॥

इति तस्य वचः शृत्वा सुरथः स नराधिपः।
प्रणिपत्य महाभागं तमृषिं संशितव्रतम् ॥7॥

निर्विण्णोतिममत्वेन राज्यापहरेणन च।
जगाम सद्यस्तपसे सच वैश्यो महामुने ॥8॥

सन्दर्शनार्थमम्भाया नlपुलिन मास्थितः।
स च वैश्यस्तपस्तेपे देवी सूक्तं परं जपन् ॥9॥

तौ तस्मिन् पुलिने देव्याः कृत्वा मूर्तिं महीमयीम्।
अर्हणां चक्रतुस्तस्याः पुष्पधूपाग्नितर्पणैः ॥10॥

निराहारौ यताहारौ तन्मनस्कौ समाहितौ।
ददतुस्तौ बलिञ्चैव निजगात्रासृगुक्षितम् ॥11॥

एवं समाराधयतोस्त्रिभिर्वर्षैर्यतात्मनोः।
परितुष्टा जगद्धात्री प्रत्यक्षं प्राह चण्डिका ॥12॥

देव्युवाचा॥13॥

यत्प्रार्थ्यते त्वया भूप त्वया च कुलनन्दन।
मत्तस्तत्प्राप्यतां सर्वं परितुष्टा ददामिते॥14॥

मार्कण्डेय उवाच॥15॥

ततो वव्रे नृपो राज्यमविभ्रंश्यन्यजन्मनि।
अत्रैवच च निजम् राज्यं हतशत्रुबलं बलात्॥16॥

सो‌உपि वैश्यस्ततो ज्ञानं वव्रे निर्विण्णमानसः।
ममेत्यहमिति प्राज्ञः सज्गविच्युति कारकम् ॥17॥

देव्युवाच॥18॥

स्वल्पैरहोभिर् नृपते स्वं राज्यं प्राप्स्यते भवान्।
हत्वा रिपूनस्खलितं तव तत्र भविष्यति॥19॥

मृतश्च भूयः सम्प्राप्य जन्म देवाद्विवस्वतः।
सावर्णिको मनुर्नाम भवान्भुवि भविष्यति॥20॥

वैश्य वर्य त्वया यश्च वरो‌உस्मत्तो‌உभिवाञ्चितः।
तं प्रयच्छामि संसिद्ध्यै तव ज्ञानं भविष्यति॥21॥

मार्कण्डेय उवाच

इति दत्वा तयोर्देवी यथाखिलषितं वरं।
भभूवान्तर्हिता सद्यो भक्त्या ताभ्यामभिष्टुता॥22॥

एवं देव्या वरं लब्ध्वा सुरथः क्षत्रियर्षभः।
सूर्याज्जन्म समासाद्य सावर्णिर्भविता मनुः॥23॥

इति दत्वा तयोर्देवी यथभिलषितं वरम्।
बभूवान्तर्हिता सध्यो भक्त्या ताभ्यामभिष्टुता॥24॥

एवं देव्या वरं लब्ध्वा सुरथः क्षत्रियर्षभः।
सूर्याज्जन्म समासाद्य सावर्णिर्भविता मनुः॥25॥

।क्लीम् ॐ।

॥ जय जय श्री मार्कण्डेयपुराणे सावर्णिके मन्वन्तरे देवीमहत्य्मे सुरथवैश्य योर्वर प्रदानं नाम त्रयोदशोध्यायसमाप्तम् ॥

॥श्री सप्त शती देवीमहत्म्यम् समाप्तम् ॥
। ॐ तत् सत् ।

आहुति
ॐ क्लीं जयन्ती साङ्गायै सशक्तिकायै सपरिवारायै सवाहनायै श्री महात्रिपुरसुन्दर्यै महाहुतिं समर्पयामि नमः स्वाहा ॥

ॐ खड्गिनी शूलिनी घोरा गदिनी चक्रिणी तथा
शङ्खिणी चापिनी बाणा भुशुण्डीपरिघायुधा । हृदयाय नमः ।

ॐ शूलेन पाहिनो देवि पाहि खड्गेन चाम्बिके।
घण्टास्वनेन नः पाहि चापज्यानिस्वनेन च शिरशेस्वाहा ।

ॐ प्राच्यां रक्ष प्रतीच्यां च चण्डिके दक्षरक्षिणे
भ्रामरे नात्म शुलस्य उत्तरस्यां तथेश्वरि । शिखायै वषट् ।

ॐ स्ॐयानि यानिरूपाणि त्रैलोक्ये विचरन्तिते
यानि चात्यन्त घोराणि तै रक्षास्मां स्तथा भुवं कवचाय हुम् ।

ॐ खड्ग शूल गदा दीनि यानि चास्ताणि तेम्बिके
करपल्लवसङ्गीनि तैरस्मा न्रक्ष सर्वतः नेत्रत्रयाय वषट् ।

ॐ सर्वस्वरूपे सर्वेशे सर्व शक्ति समन्विते
भयेभ्यस्त्राहिनो देवि दुर्गे देवि नमोस्तुते । करतल करपृष्टाभ्यां नमः ।
ॐ भूर्भुव स्सुवः इति दिग्विमिकः ।

Lord Devi Mahatmyam Durga Saptasati Chapter 12 in Sanskrit

Devi Mahatmyam Durga Saptasati Chapter 12 – Sanskrit Lyrics (Text)

Devi Mahatmyam Durga Saptasati Chapter 12 – Sanskrit Script

रचन: ऋषि मार्कण्डेय

फलश्रुतिर्नाम द्वादशो‌உध्यायः ॥

ध्यानं
विध्युद्धाम समप्रभां मृगपति स्कन्ध स्थितां भीषणां।
कन्याभिः करवाल खेट विलसद्दस्ताभि रासेवितां
हस्तैश्चक्र गधासि खेट विशिखां गुणं तर्जनीं
विभ्राण मनलात्मिकां शिशिधरां दुर्गां त्रिनेत्रां भजे

देव्युवाच॥1॥

एभिः स्तवैश्च मा नित्यं स्तोष्यते यः समाहितः।
तस्याहं सकलां बाधां नाशयिष्याम्य संशयम् ॥2॥

मधुकैटभनाशं च महिषासुरघातनम्।
कीर्तियिष्यन्ति ये त द्वद्वधं शुम्भनिशुम्भयोः ॥3॥

अष्टम्यां च चतुर्धश्यां नवम्यां चैकचेतसः।
श्रोष्यन्ति चैव ये भक्त्या मम माहात्म्यमुत्तमम् ॥4॥

न तेषां दुष्कृतं किञ्चिद् दुष्कृतोत्था न चापदः।
भविष्यति न दारिद्र्यं न चै वेष्टवियोजनम् ॥5॥

शत्रुभ्यो न भयं तस्य दस्युतो वा न राजतः।
न शस्त्रानलतो यौघात् कदाचित् सम्भविष्यति ॥6॥

तस्मान्ममैतन्माहत्म्यं पठितव्यं समाहितैः।
श्रोतव्यं च सदा भक्त्या परं स्वस्त्ययनं हि तत् ॥7॥

उप सर्गान शेषांस्तु महामारी समुद्भवान्।
तथा त्रिविध मुत्पातं माहात्म्यं शमयेन्मम ॥8॥

यत्रैत त्पठ्यते सम्यङ्नित्यमायतने मम।
सदा न तद्विमोक्ष्यामि सान्निध्यं तत्र मेस्थितम् ॥9॥

बलि प्रदाने पूजायामग्नि कार्ये महोत्सवे।
सर्वं ममैतन्माहात्म्यम् उच्चार्यं श्राव्यमेवच ॥10॥

जानताजानता वापि बलि पूजां तथा कृताम्।
प्रतीक्षिष्याम्यहं प्रीत्या वह्नि होमं तथा कृतम् ॥11॥

शरत्काले महापूजा क्रियते याच वार्षिकी।
तस्यां ममैतन्माहात्म्यं श्रुत्वा भक्तिसमन्वितः ॥12॥

सर्वबाधाविनिर्मुक्तो धनधान्यसमन्वितः।
मनुष्यो मत्प्रसादेन भविष्यति न संशयः॥13॥

श्रुत्वा ममैतन्माहात्म्यं तथा चोत्पत्तयः शुभाः।
पराक्रमं च युद्धेषु जायते निर्भयः पुमान्॥14॥

रिपवः सङ्क्षयं यान्ति कल्याणां चोपपध्यते।
नन्दते च कुलं पुंसां महात्म्यं ममशृण्वताम्॥15॥

शान्तिकर्माणि सर्वत्र तथा दुःस्वप्नदर्शने।
ग्रहपीडासु चोग्रासु महात्म्यं शृणुयान्मम॥16॥

उपसर्गाः शमं यान्ति ग्रहपीडाश्च दारुणाः
दुःस्वप्नं च नृभिर्दृष्टं सुस्वप्नमुपजायते॥17॥

बालग्रहाभिभूतानं बालानां शान्तिकारकम्।
सङ्घातभेदे च नृणां मैत्रीकरणमुत्तमम्॥18॥

दुर्वृत्तानामशेषाणां बलहानिकरं परम्।
रक्षोभूतपिशाचानां पठनादेव नाशनम्॥19॥

सर्वं ममैतन्माहात्म्यं मम सन्निधिकारकम्।
पशुपुष्पार्घ्यधूपैश्च गन्धदीपैस्तथोत्तमैः॥20॥

विप्राणां भोजनैर्होमैः प्रोक्षणीयैरहर्निशम्।
अन्यैश्च विविधैर्भोगैः प्रदानैर्वत्सरेण या॥21॥

प्रीतिर्मे क्रियते सास्मिन् सकृदुच्चरिते श्रुते।
श्रुतं हरति पापानि तथारोग्यं प्रयच्छति ॥22॥

रक्षां करोति भूतेभ्यो जन्मनां कीर्तिनं मम।
युद्देषु चरितं यन्मे दुष्ट दैत्य निबर्हणम्॥23॥

तस्मिञ्छृते वैरिकृतं भयं पुंसां न जायते।
युष्माभिः स्तुतयो याश्च याश्च ब्रह्मर्षिभिः कृताः॥24॥

ब्रह्मणा च कृतास्तास्तु प्रयच्छन्तु शुभां मतिम्।
अरण्ये प्रान्तरे वापि दावाग्नि परिवारितः॥25॥

दस्युभिर्वा वृतः शून्ये गृहीतो वापि शतृभिः।
सिंहव्याघ्रानुयातो वा वनेवा वन हस्तिभिः॥26॥

राज्ञा क्रुद्देन चाज्ञप्तो वध्यो बन्द गतो‌உपिवा।
आघूर्णितो वा वातेन स्थितः पोते महार्णवे॥27॥

पतत्सु चापि शस्त्रेषु सङ्ग्रामे भृशदारुणे।
सर्वाबाधाशु घोरासु वेदनाभ्यर्दितो‌உपिवा॥28॥

स्मरन् ममैतच्चरितं नरो मुच्येत सङ्कटात्।
मम प्रभावात्सिंहाद्या दस्यवो वैरिण स्तथा॥29॥

दूरादेव पलायन्ते स्मरतश्चरितं मम॥30॥

ऋषिरुवाच॥31॥

इत्युक्त्वा सा भगवती चण्डिका चण्डविक्रमा।
पश्यतां सर्व देवानां तत्रैवान्तरधीयत॥32॥

ते‌உपि देवा निरातङ्काः स्वाधिकारान्यथा पुरा।
यज्ञभागभुजः सर्वे चक्रुर्वि निहतारयः॥33॥

दैत्याश्च देव्या निहते शुम्भे देवरिपौ युधि
जगद्विध्वंसके तस्मिन् महोग्रे‌உतुल विक्रमे॥34॥

निशुम्भे च महावीर्ये शेषाः पातालमाययुः॥35॥

एवं भगवती देवी सा नित्यापि पुनः पुनः।
सम्भूय कुरुते भूप जगतः परिपालनम्॥36॥

तयैतन्मोह्यते विश्वं सैव विश्वं प्रसूयते।
सायाचिता च विज्ञानं तुष्टा ऋद्धिं प्रयच्छति॥37॥

व्याप्तं तयैतत्सकलं ब्रह्माण्डं मनुजेश्वर।
महादेव्या महाकाली महामारी स्वरूपया॥38॥

सैव काले महामारी सैव सृष्तिर्भवत्यजा।
स्थितिं करोति भूतानां सैव काले सनातनी॥39॥

भवकाले नृणां सैव लक्ष्मीर्वृद्धिप्रदा गृहे।
सैवाभावे तथा लक्ष्मी र्विनाशायोपजायते॥40॥

स्तुता सम्पूजिता पुष्पैर्गन्धधूपादिभिस्तथा।
ददाति वित्तं पुत्रांश्च मतिं धर्मे गतिं शुभां॥41॥

॥ इति श्री मार्कण्डेय पुराणे सावर्निके मन्वन्तरे देवी महत्म्ये फलश्रुतिर्नाम द्वादशो‌உध्याय समाप्तम् ॥

आहुति
ॐ क्लीं जयन्ती साङ्गायै सशक्तिकायै सपरिवारायै सवाहनायै वरप्रधायै वैष्णवी देव्यै अहाहुतिं समर्पयामि नमः स्वाहा ॥

Lord Devi Mahatmyam Durga Saptasati Chapter 11 in Sanskrit

Devi Mahatmyam Durga Saptasati Chapter 11 – Sanskrit Lyrics (Text)

Devi Mahatmyam Durga Saptasati Chapter 11 – Sanskrit Script

रचन: ऋषि मार्कण्डेय

नारायणीस्तुतिर्नाम एकादशो‌உध्यायः ॥

ध्यानं
ॐ बालार्कविद्युतिम् इन्दुकिरीटां तुङ्गकुचां नयनत्रययुक्ताम् ।
स्मेरमुखीं वरदाङ्कुशपाशभीतिकरां प्रभजे भुवनेशीम् ॥

ऋषिरुवाच॥1॥

देव्या हते तत्र महासुरेन्द्रे
सेन्द्राः सुरा वह्निपुरोगमास्ताम्।
कात्यायनीं तुष्टुवुरिष्टलाभा-
द्विकासिवक्त्राब्ज विकासिताशाः ॥ 2 ॥

देवि प्रपन्नार्तिहरे प्रसीद
प्रसीद मातर्जगतो‌உभिलस्य।
प्रसीदविश्वेश्वरि पाहिविश्वं
त्वमीश्वरी देवि चराचरस्य ॥3॥

आधार भूता जगतस्त्वमेका
महीस्वरूपेण यतः स्थितासि
अपां स्वरूप स्थितया त्वयैत
दाप्यायते कृत्स्नमलङ्घ्य वीर्ये ॥4॥

त्वं वैष्णवीशक्तिरनन्तवीर्या
विश्वस्य बीजं परमासि माया।
सम्मोहितं देविसमस्त मेतत्-
त्त्वं वै प्रसन्ना भुवि मुक्तिहेतुः ॥5॥

विद्याः समस्तास्तव देवि भेदाः।
स्त्रियः समस्ताः सकला जगत्सु।
त्वयैकया पूरितमम्बयैतत्
काते स्तुतिः स्तव्यपरापरोक्तिः ॥6॥

सर्व भूता यदा देवी भुक्ति मुक्तिप्रदायिनी।
त्वं स्तुता स्तुतये का वा भवन्तु परमोक्तयः ॥7॥

सर्वस्य बुद्धिरूपेण जनस्य हृदि संस्थिते।
स्वर्गापवर्गदे देवि नारायणि नमो‌உस्तुते ॥8॥

कलाकाष्ठादिरूपेण परिणाम प्रदायिनि।
विश्वस्योपरतौ शक्ते नारायणि नमोस्तुते ॥9॥

सर्व मङ्गल माङ्गल्ये शिवे सर्वार्थ साधिके।
शरण्ये त्रयम्बके गौरी नारायणि नमो‌உस्तुते ॥10॥

सृष्टिस्थितिविनाशानां शक्तिभूते सनातनि।
गुणाश्रये गुणमये नारायणि नमो‌உस्तुते ॥11॥

शरणागत दीनार्त परित्राणपरायणे।
सर्वस्यार्तिहरे देवि नारायणि नमो‌உस्तुते ॥12॥

हंसयुक्त विमानस्थे ब्रह्माणी रूपधारिणी।
कौशाम्भः क्षरिके देवि नारायणि नमो‌உस्तुते ॥13॥

त्रिशूलचन्द्राहिधरे महावृषभवाहिनि।
माहेश्वरी स्वरूपेण नारायणि नमो‌உस्तुते ॥14॥

मयूर कुक्कुटवृते महाशक्तिधरे‌உनघे।
कौमारीरूपसंस्थाने नारायणि नमोस्तुते॥15॥

शङ्खचक्रगदाशार्ङ्गगृहीतपरमायुधे।
प्रसीद वैष्णवीरूपेनारायणि नमो‌உस्तुते॥16॥

गृहीतोग्रमहाचक्रे दंष्त्रोद्धृतवसुन्धरे।
वराहरूपिणि शिवे नारायणि नमोस्तुते॥17॥

नृसिंहरूपेणोग्रेण हन्तुं दैत्यान् कृतोद्यमे।
त्रैलोक्यत्राणसहिते नारायणि नमो‌உस्तुते॥18॥

किरीटिनि महावज्रे सहस्रनयनोज्ज्वले।
वृत्रप्राणहारे चैन्द्रि नारायणि नमो‌உस्तुते ॥19॥

शिवदूतीस्वरूपेण हतदैत्य महाबले।
घोररूपे महारावे नारायणि नमो‌உस्तुते॥20॥

दंष्त्राकराल वदने शिरोमालाविभूषणे।
चामुण्डे मुण्डमथने नारायणि नमो‌உस्तुते॥21॥

लक्ष्मी लज्जे महाविध्ये श्रद्धे पुष्टि स्वधे ध्रुवे।
महारात्रि महामाये नारायणि नमो‌உस्तुते॥22॥

मेधे सरस्वति वरे भूति बाभ्रवि तामसि।
नियते त्वं प्रसीदेशे नारायणि नमो‌உस्तुते॥23॥

सर्वस्वरूपे सर्वेशे सर्वशक्तिसमन्विते।
भयेभ्यस्त्राहि नो देवि दुर्गे देवि नमो‌உस्तुते ॥24॥

एतत्ते वदनं सौम्यं लोचनत्रयभूषितम्।
पातु नः सर्वभूतेभ्यः कात्यायिनि नमो‌உस्तुते ॥25॥

ज्वालाकरालमत्युग्रमशेषासुरसूदनम्।
त्रिशूलं पातु नो भीतिर्भद्रकालि नमो‌உस्तुते॥26॥

हिनस्ति दैत्यतेजांसि स्वनेनापूर्य या जगत्।
सा घण्टा पातु नो देवि पापेभ्यो नः सुतानिव॥27॥

असुरासृग्वसापङ्कचर्चितस्ते करोज्वलः।
शुभाय खड्गो भवतु चण्डिके त्वां नता वयम्॥28॥

रोगानशेषानपहंसि तुष्टा
रुष्टा तु कामा सकलानभीष्टान्
त्वामाश्रितानां न विपन्नराणां।
त्वामाश्रिता श्रयतां प्रयान्ति॥29॥

एतत्कृतं यत्कदनं त्वयाद्य
दर्मद्विषां देवि महासुराणाम्।
रूपैरनेकैर्भहुधात्ममूर्तिं
कृत्वाम्भिके तत्प्रकरोति कान्या॥30॥

विद्यासु शास्त्रेषु विवेक दीपे
ष्वाद्येषु वाक्येषु च का त्वदन्या
ममत्वगर्ते‌உति महान्धकारे
विभ्रामयत्येतदतीव विश्वम्॥31॥

रक्षांसि यत्रो ग्रविषाश्च नागा
यत्रारयो दस्युबलानि यत्र।
दवानलो यत्र तथाब्धिमध्ये
तत्र स्थिता त्वं परिपासि विश्वम्॥32॥

विश्वेश्वरि त्वं परिपासि विश्वं
विश्वात्मिका धारयसीति विश्वम्।
विश्वेशवन्ध्या भवती भवन्ति
विश्वाश्रया येत्वयि भक्तिनम्राः॥33॥

देवि प्रसीद परिपालय नो‌உरि
भीतेर्नित्यं यथासुरवदादधुनैव सद्यः।
पापानि सर्व जगतां प्रशमं नयाशु
उत्पातपाकजनितांश्च महोपसर्गान्॥34॥

प्रणतानां प्रसीद त्वं देवि विश्वार्ति हारिणि।
त्रैलोक्यवासिनामीड्ये लोकानां वरदा भव॥35॥

देव्युवाच॥36॥

वरदाहं सुरगणा परं यन्मनसेच्चथ।
तं वृणुध्वं प्रयच्छामि जगतामुपकारकम् ॥37॥

देवा ऊचुः॥38॥

सर्वबाधा प्रशमनं त्रैलोक्यस्याखिलेश्वरि।
एवमेव त्वयाकार्य मस्मद्वैरि विनाशनम्॥39॥

देव्युवाच॥40॥

वैवस्वते‌உन्तरे प्राप्ते अष्टाविंशतिमे युगे।
शुम्भो निशुम्भश्चैवान्यावुत्पत्स्येते महासुरौ ॥41॥

नन्दगोपगृहे जाता यशोदागर्भ सम्भवा।
ततस्तौनाशयिष्यामि विन्ध्याचलनिवासिनी॥42॥

पुनरप्यतिरौद्रेण रूपेण पृथिवीतले।
अवतीर्य हविष्यामि वैप्रचित्तांस्तु दानवान् ॥43॥

भक्ष्य यन्त्याश्च तानुग्रान् वैप्रचित्तान् महासुरान्।
रक्तदन्ता भविष्यन्ति दाडिमीकुसुमोपमाः॥44॥

ततो मां देवताः स्वर्गे मर्त्यलोके च मानवाः।
स्तुवन्तो व्याहरिष्यन्ति सततं रक्तदन्तिकाम्॥45॥

भूयश्च शतवार्षिक्याम् अनावृष्ट्यामनम्भसि।
मुनिभिः संस्तुता भूमौ सम्भविष्याम्ययोनिजा ॥46॥

ततः शतेन नेत्राणां निरीक्षिष्याम्यहं मुनीन्
कीर्तियिष्यन्ति मनुजाः शताक्षीमिति मां ततः॥47॥

ततो‌உ हमखिलं लोकमात्मदेहसमुद्भवैः।
भरिष्यामि सुराः शाकैरावृष्टेः प्राण धारकैः॥48॥

शाकम्भरीति विख्यातिं तदा यास्याम्यहं भुवि।
तत्रैव च वधिष्यामि दुर्गमाख्यं महासुरम्॥49॥

दुर्गादेवीति विख्यातं तन्मे नाम भविष्यति।
पुनश्चाहं यदाभीमं रूपं कृत्वा हिमाचले॥50॥

रक्षांसि क्षययिष्यामि मुनीनां त्राण कारणात्।
तदा मां मुनयः सर्वे स्तोष्यन्त्यान म्रमूर्तयः॥51॥

भीमादेवीति विख्यातं तन्मे नाम भविष्यति।
यदारुणाख्यस्त्रैलोक्ये महाबाधां करिष्यति॥52॥

तदाहं भ्रामरं रूपं कृत्वासज्ख्येयषट्पदम्।
त्रैलोक्यस्य हितार्थाय वधिष्यामि महासुरम्॥53॥

भ्रामरीतिच मां लोका स्तदास्तोष्यन्ति सर्वतः।
इत्थं यदा यदा बाधा दानवोत्था भविष्यति॥54॥

तदा तदावतीर्याहं करिष्याम्यरिसङ्क्षयम् ॥55॥

॥ स्वस्ति श्री मार्कण्डेय पुराणे सावर्निके मन्वन्तरे देवि महत्म्ये नारायणीस्तुतिर्नाम एकादशो‌உध्यायः समाप्तम् ॥

आहुति
ॐ क्लीं जयन्ती साङ्गायै सशक्तिकायै सपरिवारायै सवाहनायै लक्ष्मीबीजाधिष्तायै गरुडवाहन्यै नारयणी देव्यै-महाहुतिं समर्पयामि नमः स्वाहा ॥

Lord Devi Mahatmyam Durga Saptasati Chapter 10 in Sanskrit

Devi Mahatmyam Durga Saptasati Chapter 10 – Sanskrit Lyrics (Text)

Devi Mahatmyam Durga Saptasati Chapter 10 – Sanskrit Script

रचन: ऋषि मार्कण्डेय

शुम्भोवधो नाम दशमो‌உध्यायः ॥

ऋषिरुवाच॥1॥

निशुम्भं निहतं दृष्ट्वा भ्रातरम्प्राणसम्मितं।
हन्यमानं बलं चैव शुम्बः कृद्धो‌உब्रवीद्वचः ॥ 2 ॥

बलावलेपदुष्टे त्वं मा दुर्गे गर्व मावह।
अन्यासां बलमाश्रित्य युद्द्यसे चातिमानिनी ॥3॥

देव्युवाच ॥4॥

एकैवाहं जगत्यत्र द्वितीया का ममापरा।
पश्यैता दुष्ट मय्येव विशन्त्यो मद्विभूतयः ॥5॥

ततः समस्तास्ता देव्यो ब्रह्माणी प्रमुखालयम्।
तस्या देव्यास्तनौ जग्मुरेकैवासीत्तदाम्बिका ॥6॥

देव्युवाच ॥6॥

अहं विभूत्या बहुभिरिह रूपैर्यदास्थिता।
तत्संहृतं मयैकैव तिष्टाम्याजौ स्थिरो भव ॥8॥

ऋषिरुवाच ॥9॥

ततः प्रववृते युद्धं देव्याः शुम्भस्य चोभयोः।
पश्यतां सर्वदेवानाम् असुराणां च दारुणम् ॥10॥

शर वर्षैः शितैः शस्त्रैस्तथा चास्त्रैः सुदारुणैः।
तयोर्युद्दमभूद्भूयः सर्वलोकभयज्ञ्करम् ॥11॥

दिव्यान्यश्त्राणि शतशो मुमुचे यान्यथाम्बिका।
बभज्ञ तानि दैत्येन्द्रस्तत्प्रतीघातकर्तृभिः ॥12॥

मुक्तानि तेन चास्त्राणि दिव्यानि परमेश्वरी।
बभञ्ज लीलयैवोग्र हूज्कारोच्चारणादिभिः॥13॥

ततः शरशतैर्देवीम् आच्चादयत सो‌உसुरः।
सापि तत्कुपिता देवी धनुश्चिछ्चेद चेषुभिः॥14॥

चिन्ने धनुषि दैत्येन्द्रस्तथा शक्तिमथाददे।
चिछ्चेद देवी चक्रेण तामप्यस्य करेस्थिताम्॥15॥

ततः खड्ग मुपादाय शत चन्द्रं च भानुमत्।
अभ्यधावत्तदा देवीं दैत्यानामधिपेश्वरः॥16॥

तस्यापतत एवाशु खड्गं चिच्छेद चण्डिका।
धनुर्मुक्तैः शितैर्बाणैश्चर्म चार्ककरामलम्॥17॥

हताश्वः पतत एवाशु खड्गं चिछ्चेद चण्डिका।
जग्राह मुद्गरं घोरम् अम्बिकानिधनोद्यतः॥18॥

चिच्छेदापततस्तस्य मुद्गरं निशितैः शरैः।
तथापि सो‌உभ्यधावत्तं मुष्टिमुद्यम्यवेगवान्॥19॥

स मुष्टिं पातयामास हृदये दैत्य पुङ्गवः।
देव्यास्तं चापि सा देवी तले नो रस्य ताडयत्॥20॥

तलप्रहाराभिहतो निपपात महीतले।
स दैत्यराजः सहसा पुनरेव तथोत्थितः ॥21॥

उत्पत्य च प्रगृह्योच्चैर् देवीं गगनमास्थितः।
तत्रापि सा निराधारा युयुधे तेन चण्डिका॥22॥

नियुद्धं खे तदा दैत्य श्चण्डिका च परस्परम्।
चक्रतुः प्रधमं सिद्ध मुनिविस्मयकारकम्॥23॥

ततो नियुद्धं सुचिरं कृत्वा तेनाम्बिका सह।
उत्पाट्य भ्रामयामास चिक्षेप धरणीतले॥24॥

सक्षिप्तोधरणीं प्राप्य मुष्टिमुद्यम्य वेगवान्।
अभ्यधावत दुष्टात्मा चण्डिकानिधनेच्छया॥25॥

तमायन्तं ततो देवी सर्वदैत्यजनेशर्वम्।
जगत्यां पातयामास भित्वा शूलेन वक्षसि॥26॥

स गतासुः पपातोर्व्यां देवीशूलाग्रविक्षतः।
चालयन् सकलां पृथ्वीं साब्दिद्वीपां सपर्वताम् ॥27॥

ततः प्रसन्न मखिलं हते तस्मिन् दुरात्मनि।
जगत्स्वास्थ्यमतीवाप निर्मलं चाभवन्नभः ॥28॥

उत्पातमेघाः सोल्का येप्रागासंस्ते शमं ययुः।
सरितो मार्गवाहिन्यस्तथासंस्तत्र पातिते ॥29॥

ततो देव गणाः सर्वे हर्ष निर्भरमानसाः।
बभूवुर्निहते तस्मिन् गन्दर्वा ललितं जगुः॥30॥

अवादयं स्तथैवान्ये ननृतुश्चाप्सरोगणाः।
ववुः पुण्यास्तथा वाताः सुप्रभो‌உ भूद्धिवाकरः॥31॥

जज्वलुश्चाग्नयः शान्ताः शान्तदिग्जनितस्वनाः॥32॥

॥ स्वस्ति श्री मार्कण्डेय पुराणे सावर्निकेमन्वन्तरे देवि महत्म्ये शुम्भोवधो नाम दशमो ध्यायः समाप्तम् ॥

आहुति
ॐ क्लीं जयन्ती साङ्गायै सशक्तिकायै सपरिवारायै सवाहनायै कामेश्वर्यै महाहुतिं समर्पयामि नमः स्वाहा ॥

Lord Devi Mahatmyam Durga Saptasati Chapter 9 in Sanskrit

Devi Mahatmyam Durga Saptasati Chapter 9 – Sanskrit Lyrics (Text)

Devi Mahatmyam Durga Saptasati Chapter 9 – Sanskrit Script

रचन: ऋषि मार्कण्डेय

निशुम्भवधोनाम नवमोध्यायः ॥

ध्यानं
ॐ बन्धूक काञ्चननिभं रुचिराक्षमालां
पाशाङ्कुशौ च वरदां निजबाहुदण्डैः ।
बिभ्राणमिन्दु शकलाभरणां त्रिनेत्रां-
अर्धाम्बिकेशमनिशं वपुराश्रयामि ॥

राजौवाच॥1॥

विचित्रमिदमाख्यातं भगवन् भवता मम ।
देव्याश्चरितमाहात्म्यं रक्त बीजवधाश्रितम् ॥ 2॥

भूयश्चेच्छाम्यहं श्रोतुं रक्तबीजे निपातिते ।
चकार शुम्भो यत्कर्म निशुम्भश्चातिकोपनः ॥3॥

ऋषिरुवाच ॥4॥

चकार कोपमतुलं रक्तबीजे निपातिते।
शुम्भासुरो निशुम्भश्च हतेष्वन्येषु चाहवे ॥5॥

हन्यमानं महासैन्यं विलोक्यामर्षमुद्वहन्।
अभ्यदावन्निशुम्बो‌உथ मुख्ययासुर सेनया ॥6॥

तस्याग्रतस्तथा पृष्ठे पार्श्वयोश्च महासुराः
सन्दष्टौष्ठपुटाः क्रुद्धा हन्तुं देवीमुपाययुः ॥7॥

आजगाम महावीर्यः शुम्भो‌உपि स्वबलैर्वृतः।
निहन्तुं चण्डिकां कोपात्कृत्वा युद्दं तु मातृभिः ॥8॥

ततो युद्धमतीवासीद्देव्या शुम्भनिशुम्भयोः।
शरवर्षमतीवोग्रं मेघयोरिव वर्षतोः ॥9॥

चिच्छेदास्ताञ्छरांस्ताभ्यां चण्डिका स्वशरोत्करैः।
ताडयामास चाङ्गेषु शस्त्रौघैरसुरेश्वरौ ॥10॥

निशुम्भो निशितं खड्गं चर्म चादाय सुप्रभम्।
अताडयन्मूर्ध्नि सिंहं देव्या वाहनमुत्तमम्॥11॥

ताडिते वाहने देवी क्षुर प्रेणासिमुत्तमम्।
शुम्भस्याशु चिच्छेद चर्म चाप्यष्ट चन्द्रकम् ॥12॥

छिन्ने चर्मणि खड्गे च शक्तिं चिक्षेप सो‌உसुरः।
तामप्यस्य द्विधा चक्रे चक्रेणाभिमुखागताम्॥13॥

कोपाध्मातो निशुम्भो‌உथ शूलं जग्राह दानवः।
आयातं मुष्ठिपातेन देवी तच्चाप्यचूर्णयत्॥14॥

आविद्ध्याथ गदां सो‌உपि चिक्षेप चण्डिकां प्रति।
सापि देव्यास् त्रिशूलेन भिन्ना भस्मत्वमागता॥15॥

ततः परशुहस्तं तमायान्तं दैत्यपुङ्गवं।
आहत्य देवी बाणौघैरपातयत भूतले॥16॥

तस्मिन्नि पतिते भूमौ निशुम्भे भीमविक्रमे।
भ्रातर्यतीव सङ्क्रुद्धः प्रययौ हन्तुमम्बिकाम्॥17॥

स रथस्थस्तथात्युच्छै र्गृहीतपरमायुधैः।
भुजैरष्टाभिरतुलै र्व्याप्या शेषं बभौ नभः॥18॥

तमायान्तं समालोक्य देवी शङ्खमवादयत्।
ज्याशब्दं चापि धनुष श्चकारातीव दुःसहम्॥19॥

पूरयामास ककुभो निजघण्टा स्वनेन च।
समस्तदैत्यसैन्यानां तेजोवधविधायिना॥20॥

ततः सिंहो महानादै स्त्याजितेभमहामदैः।
पुरयामास गगनं गां तथैव दिशो दश॥21॥

ततः काली समुत्पत्य गगनं क्ष्मामताडयत्।
कराभ्यां तन्निनादेन प्राक्स्वनास्ते तिरोहिताः॥22॥

अट्टाट्टहासमशिवं शिवदूती चकार ह।
वैः शब्दैरसुरास्त्रेसुः शुम्भः कोपं परं ययौ॥23॥

दुरात्मं स्तिष्ट तिष्ठेति व्याज हाराम्बिका यदा।
तदा जयेत्यभिहितं देवैराकाश संस्थितैः॥24॥

शुम्भेनागत्य या शक्तिर्मुक्ता ज्वालातिभीषणा।
आयान्ती वह्निकूटाभा सा निरस्ता महोल्कया॥25॥

सिंहनादेन शुम्भस्य व्याप्तं लोकत्रयान्तरम्।
निर्घातनिःस्वनो घोरो जितवानवनीपते॥26॥

शुम्भमुक्ताञ्छरान्देवी शुम्भस्तत्प्रहिताञ्छरान्।
चिच्छेद स्वशरैरुग्रैः शतशो‌உथ सहस्रशः॥27॥

ततः सा चण्डिका क्रुद्धा शूलेनाभिजघान तम्।
स तदाभि हतो भूमौ मूर्छितो निपपात ह॥28॥

ततो निशुम्भः सम्प्राप्य चेतनामात्तकार्मुकः।
आजघान शरैर्देवीं कालीं केसरिणं तथा॥29॥

पुनश्च कृत्वा बाहुनामयुतं दनुजेश्वरः।
चक्रायुधेन दितिजश्चादयामास चण्डिकाम्॥30॥

ततो भगवती क्रुद्धा दुर्गादुर्गार्ति नाशिनी।
चिच्छेद देवी चक्राणि स्वशरैः सायकांश्च तान्॥31॥

ततो निशुम्भो वेगेन गदामादाय चण्डिकाम्।
अभ्यधावत वै हन्तुं दैत्य सेनासमावृतः॥32॥

तस्यापतत एवाशु गदां चिच्छेद चण्डिका।
खड्गेन शितधारेण स च शूलं समाददे॥33॥

शूलहस्तं समायान्तं निशुम्भममरार्दनम्।
हृदि विव्याध शूलेन वेगाविद्धेन चण्डिका॥34॥

खिन्नस्य तस्य शूलेन हृदयान्निःसृतो‌உपरः।
महाबलो महावीर्यस्तिष्ठेति पुरुषो वदन्॥35॥

तस्य निष्क्रामतो देवी प्रहस्य स्वनवत्ततः।
शिरश्चिच्छेद खड्गेन ततो‌உसावपतद्भुवि॥36॥

ततः सिंहश्च खादोग्र दंष्ट्राक्षुण्णशिरोधरान्।
असुरां स्तांस्तथा काली शिवदूती तथापरान्॥37॥

कौमारी शक्तिनिर्भिन्नाः केचिन्नेशुर्महासुराः
ब्रह्माणी मन्त्रपूतेन तोयेनान्ये निराकृताः॥38॥

माहेश्वरी त्रिशूलेन भिन्नाः पेतुस्तथापरे।
वाराहीतुण्डघातेन केचिच्चूर्णी कृता भुवि॥39॥

खण्डं खण्डं च चक्रेण वैष्णव्या दानवाः कृताः।
वज्रेण चैन्द्री हस्ताग्र विमुक्तेन तथापरे॥40॥

केचिद्विनेशुरसुराः केचिन्नष्टामहाहवात्।
भक्षिताश्चापरे कालीशिवधूती मृगाधिपैः॥41॥

॥ स्वस्ति श्री मार्कण्डेय पुराणे सावर्निके मन्वन्तरे देवि महत्म्ये निशुम्भवधोनाम नवमोध्याय समाप्तम् ॥

आहुति
ॐ क्लीं जयन्ती साङ्गायै सशक्तिकायै सपरिवारायै सवाहनायै महाहुतिं समर्पयामि नमः स्वाहा ॥

Lord Devi Mahatmyam Durga Saptasati Chapter 8 in Sanskrit

Devi Mahatmyam Durga Saptasati Chapter 8 – Sanskrit Lyrics (Text)

Devi Mahatmyam Durga Saptasati Chapter 8 – Sanskrit Script

रचन: ऋषि मार्कण्डेय

रक्तबीजवधो नाम अष्टमोध्याय ॥

ध्यानं
अरुणां करुणा तरङ्गिताक्षीं धृतपाशाङ्कुश पुष्पबाणचापाम् ।
अणिमाधिभिरावृतां मयूखै रहमित्येव विभावये भवानीम् ॥

ऋषिरुवाच ॥1॥

चण्डे च निहते दैत्ये मुण्डे च विनिपातिते ।
बहुलेषु च सैन्येषु क्षयितेष्वसुरेश्वरः ॥ 2 ॥

ततः कोपपराधीनचेताः शुम्भः प्रतापवान् ।
उद्योगं सर्व सैन्यानां दैत्यानामादिदेश ह ॥3॥

अद्य सर्व बलैर्दैत्याः षडशीतिरुदायुधाः ।
कम्बूनां चतुरशीतिर्निर्यान्तु स्वबलैर्वृताः ॥4॥

कोटिवीर्याणि पञ्चाशदसुराणां कुलानि वै ।
शतं कुलानि धौम्राणां निर्गच्छन्तु ममाज्ञया ॥5॥

कालका दौर्हृदा मौर्वाः कालिकेयास्तथासुराः ।
युद्धाय सज्जा निर्यान्तु आज्ञया त्वरिता मम ॥6॥

इत्याज्ञाप्यासुरापतिः शुम्भो भैरवशासनः ।
निर्जगाम महासैन्यसहस्त्रैर्भहुभिर्वृतः ॥7॥

आयान्तं चण्डिका दृष्ट्वा तत्सैन्यमतिभीषणम् ।
ज्यास्वनैः पूरयामास धरणीगगनान्तरम् ॥8॥

ततःसिंहो महानादमतीव कृतवान्नृप ।
घण्टास्वनेन तान्नादानम्बिका चोपबृंहयत् ॥9॥

धनुर्ज्यासिंहघण्टानां नादापूरितदिङ्मुखा ।
निनादैर्भीषणैः काली जिग्ये विस्तारितानना ॥10॥

तं निनादमुपश्रुत्य दैत्य सैन्यैश्चतुर्दिशम् ।
देवी सिंहस्तथा काली सरोषैः परिवारिताः ॥11॥

एतस्मिन्नन्तरे भूप विनाशाय सुरद्विषाम् ।
भवायामरसिंहनामतिवीर्यबलान्विताः ॥12॥

ब्रह्मेशगुहविष्णूनां तथेन्द्रस्य च शक्तयः ।
शरीरेभ्योविनिष्क्रम्य तद्रूपैश्चण्डिकां ययुः ॥13॥

यस्य देवस्य यद्रूपं यथा भूषणवाहनम् ।
तद्वदेव हि तच्चक्तिरसुरान्योद्धुमायमौ ॥14॥

हंसयुक्तविमानाग्रे साक्षसूत्रक मण्डलुः ।
आयाता ब्रह्मणः शक्तिब्रह्माणी त्यभिधीयते ॥15॥

महेश्वरी वृषारूढा त्रिशूलवरधारिणी ।
महाहिवलया प्राप्ताचन्द्ररेखाविभूषणा ॥16॥

कौमारी शक्तिहस्ता च मयूरवरवाहना ।
योद्धुमभ्याययौ दैत्यानम्बिका गुहरूपिणी ॥17॥

तथैव वैष्णवी शक्तिर्गरुडोपरि संस्थिता ।
शङ्खचक्रगधाशाङ्खर् खड्गहस्ताभ्युपाययौ ॥18॥

यज्ञवाराहमतुलं रूपं या भिभ्रतो हरेः ।
शक्तिः साप्याययौ तत्र वाराहीं बिभ्रती तनुम् ॥19॥

नारसिंही नृसिंहस्य बिभ्रती सदृशं वपुः ।
प्राप्ता तत्र सटाक्षेपक्षिप्तनक्षत्र संहतिः ॥20॥

वज्र हस्ता तथैवैन्द्री गजराजो परिस्थिता ।
प्राप्ता सहस्र नयना यथा शक्रस्तथैव सा ॥21॥

ततः परिवृत्तस्ताभिरीशानो देव शक्तिभिः ।
हन्यन्तामसुराः शीघ्रं मम प्रीत्याह चण्डिकां ॥22॥

ततो देवी शरीरात्तु विनिष्क्रान्तातिभीषणा ।
चण्डिका शक्तिरत्युग्रा शिवाशतनिनादिनी ॥23॥

सा चाह धूम्रजटिलम् ईशानमपराजिता ।
दूतत्वं गच्छ भगवन् पार्श्वं शुम्भनिशुम्भयोः ॥24॥

ब्रूहि शुम्भं निशुम्भं च दानवावतिगर्वितौ ।
ये चान्ये दानवास्तत्र युद्धाय समुपस्थिताः ॥25॥

त्रैलोक्यमिन्द्रो लभतां देवाः सन्तु हविर्भुजः ।
यूयं प्रयात पातालं यदि जीवितुमिच्छथ ॥26॥

बलावलेपादथ चेद्भवन्तो युद्धकाङ्क्षिणः ।
तदा गच्छत तृप्यन्तु मच्छिवाः पिशितेन वः ॥27॥

यतो नियुक्तो दौत्येन तया देव्या शिवः स्वयम् ।
शिवदूतीति लोके‌உस्मिंस्ततः सा ख्याति मागता ॥28॥

ते‌உपि श्रुत्वा वचो देव्याः शर्वाख्यातं महासुराः ।
अमर्षापूरिता जग्मुर्यत्र कात्यायनी स्थिता ॥29॥

ततः प्रथममेवाग्रे शरशक्त्यृष्टिवृष्टिभिः ।
ववर्षुरुद्धतामर्षाः स्तां देवीममरारयः ॥30॥

सा च तान् प्रहितान् बाणान् ञ्छूलशक्तिपरश्वधान् ।
चिच्छेद लीलयाध्मातधनुर्मुक्तैर्महेषुभिः ॥31॥

तस्याग्रतस्तथा काली शूलपातविदारितान् ।
खट्वाङ्गपोथितांश्चारीन्कुर्वन्ती व्यचरत्तदा ॥32॥

कमण्डलुजलाक्षेपहतवीर्यान् हतौजसः ।
ब्रह्माणी चाकरोच्छत्रून्येन येन स्म धावति ॥33॥

माहेश्वरी त्रिशूलेन तथा चक्रेण वैष्णवी ।
दैत्याङ्जघान कौमारी तथा शत्याति कोपना ॥34॥

ऐन्द्री कुलिशपातेन शतशो दैत्यदानवाः ।
पेतुर्विदारिताः पृथ्व्यां रुधिरौघप्रवर्षिणः ॥35॥

तुण्डप्रहारविध्वस्ता दंष्ट्रा ग्रक्षत वक्षसः ।
वाराहमूर्त्या न्यपतंश्चक्रेण च विदारिताः ॥36॥

नखैर्विदारितांश्चान्यान् भक्षयन्ती महासुरान् ।
नारसिंही चचाराजौ नादा पूर्णदिगम्बरा ॥37॥

चण्डाट्टहासैरसुराः शिवदूत्यभिदूषिताः ।
पेतुः पृथिव्यां पतितांस्तांश्चखादाथ सा तदा ॥38॥

इति मातृ गणं क्रुद्धं मर्द यन्तं महासुरान् ।
दृष्ट्वाभ्युपायैर्विविधैर्नेशुर्देवारिसैनिकाः ॥39॥

पलायनपरान्दृष्ट्वा दैत्यान्मातृगणार्दितान् ।
योद्धुमभ्याययौ क्रुद्धो रक्तबीजो महासुरः ॥40॥

रक्तबिन्दुर्यदा भूमौ पतत्यस्य शरीरतः ।
समुत्पतति मेदिन्यां तत्प्रमाणो महासुरः ॥41॥

युयुधे स गदापाणिरिन्द्रशक्त्या महासुरः ।
ततश्चैन्द्री स्ववज्रेण रक्तबीजमताडयत् ॥42॥

कुलिशेनाहतस्याशु बहु सुस्राव शोणितम् ।
समुत्तस्थुस्ततो योधास्तद्रपास्तत्पराक्रमाः ॥43॥

यावन्तः पतितास्तस्य शरीराद्रक्तबिन्दवः ।
तावन्तः पुरुषा जाताः स्तद्वीर्यबलविक्रमाः ॥44॥

ते चापि युयुधुस्तत्र पुरुषा रक्त सम्भवाः ।
समं मातृभिरत्युग्रशस्त्रपातातिभीषणं ॥45॥

पुनश्च वज्र पातेन क्षत मश्य शिरो यदा ।
ववाह रक्तं पुरुषास्ततो जाताः सहस्रशः ॥46॥

वैष्णवी समरे चैनं चक्रेणाभिजघान ह ।
गदया ताडयामास ऐन्द्री तमसुरेश्वरम् ॥47॥

वैष्णवी चक्रभिन्नस्य रुधिरस्राव सम्भवैः ।
सहस्रशो जगद्व्याप्तं तत्प्रमाणैर्महासुरैः ॥48॥

शक्त्या जघान कौमारी वाराही च तथासिना ।
माहेश्वरी त्रिशूलेन रक्तबीजं महासुरम् ॥49॥

स चापि गदया दैत्यः सर्वा एवाहनत् पृथक् ।
मातॄः कोपसमाविष्टो रक्तबीजो महासुरः ॥50॥

तस्याहतस्य बहुधा शक्तिशूलादि भिर्भुविः ।
पपात यो वै रक्तौघस्तेनासञ्चतशो‌உसुराः ॥51॥

तैश्चासुरासृक्सम्भूतैरसुरैः सकलं जगत् ।
व्याप्तमासीत्ततो देवा भयमाजग्मुरुत्तमम् ॥52॥

तान् विषण्णा न् सुरान् दृष्ट्वा चण्डिका प्राहसत्वरम् ।
उवाच कालीं चामुण्डे विस्तीर्णं वदनं कुरु ॥53॥

मच्छस्त्रपातसम्भूतान् रक्तबिन्दून् महासुरान् ।
रक्तबिन्दोः प्रतीच्छ त्वं वक्त्रेणानेन वेगिना ॥54॥

भक्षयन्ती चर रणो तदुत्पन्नान्महासुरान् ।
एवमेष क्षयं दैत्यः क्षेण रक्तो गमिष्यति ॥55॥

भक्ष्य माणा स्त्वया चोग्रा न चोत्पत्स्यन्ति चापरे ।
इत्युक्त्वा तां ततो देवी शूलेनाभिजघान तम् ॥56॥

मुखेन काली जगृहे रक्तबीजस्य शोणितम् ।
ततो‌உसावाजघानाथ गदया तत्र चण्डिकां ॥57॥

न चास्या वेदनां चक्रे गदापातो‌உल्पिकामपि ।
तस्याहतस्य देहात्तु बहु सुस्राव शोणितम् ॥58॥

यतस्ततस्तद्वक्त्रेण चामुण्डा सम्प्रतीच्छति ।
मुखे समुद्गता ये‌உस्या रक्तपातान्महासुराः ॥59॥

तांश्चखादाथ चामुण्डा पपौ तस्य च शोणितम् ॥60॥

देवी शूलेन वज्रेण बाणैरसिभिर् ऋष्टिभिः ।
जघान रक्तबीजं तं चामुण्डा पीत शोणितम् ॥61॥

स पपात महीपृष्ठे शस्त्रसङ्घसमाहतः ।
नीरक्तश्च महीपाल रक्तबीजो महासुरः ॥62॥

ततस्ते हर्ष मतुलम् अवापुस्त्रिदशा नृप ।
तेषां मातृगणो जातो ननर्तासृंङ्गमदोद्धतः ॥63॥

॥ स्वस्ति श्री मार्कण्डेय पुराणे सावर्निके मन्वन्तरे देवि महत्म्ये रक्तबीजवधोनाम अष्टमोध्याय समाप्तम् ॥

आहुति
ॐ जयन्ती साङ्गायै सशक्तिकायै सपरिवारायै सवाहनायै रक्ताक्ष्यै अष्टमातृ सहितायै महाहुतिं समर्पयामि नमः स्वाहा ॥

Lord Devi Mahatmyam Durga Saptasati Chapter 7 in Sanskrit

Devi Mahatmyam Durga Saptasati Chapter 7 – Sanskrit Lyrics (Text)

Devi Mahatmyam Durga Saptasati Chapter 7 – Sanskrit Script

रचन: ऋषि मार्कण्डेय

चण्डमुण्ड वधो नाम सप्तमोध्यायः ॥

ध्यानं
ध्यायें रत्न पीठे शुककल पठितं श्रुण्वतीं श्यामलाङ्गीं।
न्यस्तैकाङ्घ्रिं सरोजे शशि शकल धरां वल्लकीं वाद यन्तीं
कहलाराबद्ध मालां नियमित विलसच्चोलिकां रक्त वस्त्रां।
मातङ्गीं शङ्ख पात्रां मधुर मधुमदां चित्रकोद्भासि भालां।

ऋषिरुवाच।

आज्ञप्तास्ते ततोदैत्याश्चण्डमुण्डपुरोगमाः।
चतुरङ्गबलोपेता ययुरभ्युद्यतायुधाः ॥1॥

ददृशुस्ते ततो देवीमीषद्धासां व्यवस्थिताम्।
सिंहस्योपरि शैलेन्द्रशृङ्गे महतिकाञ्चने ॥2॥

तेदृष्ट्वातांसमादातुमुद्यमं ञ्चक्रुरुद्यताः
आकृष्टचापासिधरास्तथा‌உन्ये तत्समीपगाः ॥3॥

ततः कोपं चकारोच्चैरम्भिका तानरीन्प्रति।
कोपेन चास्या वदनं मषीवर्णमभूत्तदा ॥4॥

भ्रुकुटीकुटिलात्तस्या ललाटफलकाद्द्रुतम्।
काली कराल वदना विनिष्क्रान्तासिपाशिनी ॥5॥

विचित्रखट्वाङ्गधरा नरमालाविभूषणा।
द्वीपिचर्मपरीधाना शुष्कमांसातिभैरवा ॥6॥

अतिविस्तारवदना जिह्वाललनभीषणा।
निमग्नारक्तनयना नादापूरितदिङ्मुखा ॥6॥

सा वेगेनाभिपतिता घूतयन्ती महासुरान्।
सैन्ये तत्र सुरारीणामभक्षयत तद्बलम् ॥8॥

पार्ष्णिग्राहाङ्कुशग्राहयोधघण्टासमन्वितान्।
समादायैकहस्तेन मुखे चिक्षेप वारणान् ॥9॥

तथैव योधं तुरगै रथं सारथिना सह।
निक्षिप्य वक्त्रे दशनैश्चर्वयत्यतिभैरवं ॥10॥

एकं जग्राह केशेषु ग्रीवायामथ चापरं।
पादेनाक्रम्यचैवान्यमुरसान्यमपोथयत् ॥11॥

तैर्मुक्तानिच शस्त्राणि महास्त्राणि तथासुरैः।
मुखेन जग्राह रुषा दशनैर्मथितान्यपि ॥12॥

बलिनां तद्बलं सर्वमसुराणां दुरात्मनां
ममर्दाभक्षयच्चान्यानन्यांश्चाताडयत्तथा ॥13॥

असिना निहताः केचित्केचित्खट्वाङ्गताडिताः।
जग्मुर्विनाशमसुरा दन्ताग्राभिहतास्तथा ॥14॥

क्षणेन तद्भलं सर्व मसुराणां निपातितं।
दृष्ट्वा चण्डो‌உभिदुद्राव तां कालीमतिभीषणां ॥15॥

शरवर्षैर्महाभीमैर्भीमाक्षीं तां महासुरः।
छादयामास चक्रैश्च मुण्डः क्षिप्तैः सहस्रशः ॥16॥

तानिचक्राण्यनेकानि विशमानानि तन्मुखम्।
बभुर्यथार्कबिम्बानि सुबहूनि घनोदरं ॥17॥

ततो जहासातिरुषा भीमं भैरवनादिनी।
काली करालवदना दुर्दर्शशनोज्ज्वला ॥18॥

उत्थाय च महासिंहं देवी चण्डमधावत।
गृहीत्वा चास्य केशेषु शिरस्तेनासिनाच्छिनत् ॥19॥

अथ मुण्डो‌உभ्यधावत्तां दृष्ट्वा चण्डं निपातितम्।
तमप्यपात यद्भमौ सा खड्गाभिहतंरुषा ॥20॥

हतशेषं ततः सैन्यं दृष्ट्वा चण्डं निपातितम्।
मुण्डञ्च सुमहावीर्यं दिशो भेजे भयातुरम् ॥21॥

शिरश्चण्डस्य काली च गृहीत्वा मुण्ड मेव च।
प्राह प्रचण्डाट्टहासमिश्रमभ्येत्य चण्डिकाम् ॥22॥

मया तवा त्रोपहृतौ चण्डमुण्डौ महापशू।
युद्धयज्ञे स्वयं शुम्भं निशुम्भं चहनिष्यसि ॥23॥

ऋषिरुवाच॥

तावानीतौ ततो दृष्ट्वा चण्ड मुण्डौ महासुरौ।
उवाच कालीं कल्याणी ललितं चण्डिका वचः ॥24॥

यस्माच्चण्डं च मुण्डं च गृहीत्वा त्वमुपागता।
चामुण्डेति ततो लोके ख्याता देवी भविष्यसि ॥25॥

॥ जय जय श्री मार्कण्डेय पुराणे सावर्निके मन्वन्तरे देवि महत्म्ये चण्डमुण्ड वधो नाम सप्तमोध्याय समाप्तम् ॥

आहुति
ॐ क्लीं जयन्ती साङ्गायै सशक्तिकायै सपरिवारायै सवाहनायै काली चामुण्डा देव्यै कर्पूर बीजाधिष्ठायै महाहुतिं समर्पयामि नमः स्वाहा ॥

Lord Devi Mahatmyam Durga Saptasati Chapter 6 in Sanskrit

Devi Mahatmyam Durga Saptasati Chapter 6 – Sanskrit Lyrics (Text)

Devi Mahatmyam Durga Saptasati Chapter 6 – Sanskrit Script

रचन: ऋषि मार्कण्डेय

शुम्भनिशुम्भसेनानीधूम्रलोचनवधो नाम षष्टो ध्यायः ॥

ध्यानं
नगाधीश्वर विष्त्रां फणि फणोत्त्ंसोरु रत्नावली
भास्वद् देह लतां निभौ नेत्रयोद्भासिताम् ।
माला कुम्भ कपाल नीरज करां चन्द्रा अर्ध चूढाम्बरां
सर्वेश्वर भैरवाङ्ग निलयां पद्मावतीचिन्तये ॥

ऋषिरुवाच ॥1॥

इत्याकर्ण्य वचो देव्याः स दूतो‌உमर्षपूरितः ।
समाचष्ट समागम्य दैत्यराजाय विस्तरात् ॥ 2 ॥

तस्य दूतस्य तद्वाक्यमाकर्ण्यासुरराट् ततः ।
स क्रोधः प्राह दैत्यानामधिपं धूम्रलोचनम् ॥3॥

हे धूम्रलोचनाशु त्वं स्वसैन्य परिवारितः।
तामानय बल्लाद्दुष्टां केशाकर्षण विह्वलाम् ॥4॥

तत्परित्राणदः कश्चिद्यदि वोत्तिष्ठते‌உपरः।
स हन्तव्यो‌உमरोवापि यक्षो गन्धर्व एव वा ॥5॥

ऋषिरुवाच ॥6॥

तेनाज्ञप्तस्ततः शीघ्रं स दैत्यो धूम्रलोचनः।
वृतः षष्ट्या सहस्राणाम् असुराणान्द्रुतंयमौ ॥6॥

न दृष्ट्वा तां ततो देवीं तुहिनाचल संस्थितां।
जगादोच्चैः प्रयाहीति मूलं शुम्बनिशुम्भयोः ॥8॥

न चेत्प्रीत्याद्य भवती मद्भर्तारमुपैष्यति
ततो बलान्नयाम्येष केशाकर्षणविह्वलाम् ॥9॥

देव्युवाच ॥10॥

दैत्येश्वरेण प्रहितो बलवान्बलसंवृतः।
बलान्नयसि मामेवं ततः किं ते करोम्यहम् ॥11॥

ऋषिरुवाच ॥12॥

इत्युक्तः सो‌உभ्यधावत्ताम् असुरो धूम्रलोचनः।
हूङ्कारेणैव तं भस्म सा चकाराम्बिका तदा ॥13॥

अथ क्रुद्धं महासैन्यम् असुराणां तथाम्बिका।
ववर्ष सायुकैस्तीक्ष्णैस्तथा शक्तिपरश्वधैः ॥14॥

ततो धुतसटः कोपात्कृत्वा नादं सुभैरवम्।
पपातासुर सेनायां सिंहो देव्याः स्ववाहनः ॥15॥

कांश्चित्करप्रहारेण दैत्यानास्येन चापारान्।
आक्रान्त्या चाधरेण्यान् जघान स महासुरान् ॥16॥

केषाञ्चित्पाटयामास नखैः कोष्ठानि केसरी।
तथा तलप्रहारेण शिरांसि कृतवान् पृथक् ॥17॥

विच्छिन्नबाहुशिरसः कृतास्तेन तथापरे।
पपौच रुधिरं कोष्ठादन्येषां धुतकेसरः ॥18॥

क्षणेन तद्बलं सर्वं क्षयं नीतं महात्मना।
तेन केसरिणा देव्या वाहनेनातिकोपिना ॥19॥

श्रुत्वा तमसुरं देव्या निहतं धूम्रलोचनम्।
बलं च क्षयितं कृत्स्नं देवी केसरिणा ततः ॥20॥

चुकोप दैत्याधिपतिः शुम्भः प्रस्फुरिताधरः।
आज्ञापयामास च तौ चण्डमुण्डौ महासुरौ ॥21॥

हेचण्ड हे मुण्ड बलैर्बहुभिः परिवारितौ
तत्र गच्छत गत्वा च सा समानीयतां लघु ॥22॥

केशेष्वाकृष्य बद्ध्वा वा यदि वः संशयो युधि।
तदाशेषा युधैः सर्वैर् असुरैर्विनिहन्यतां ॥23॥

तस्यां हतायां दुष्टायां सिंहे च विनिपातिते।
शीघ्रमागम्यतां बद्वा गृहीत्वातामथाम्बिकाम् ॥24॥

॥ स्वस्ति श्री मार्कण्डेय पुराणे सावर्निकेमन्वन्तरे देवि महत्म्ये शुम्भनिशुम्भसेनानीधूम्रलोचनवधो नाम षष्टो ध्यायः ॥

आहुति
ॐ क्लीं जयन्ती साङ्गायै सशक्तिकायै सपरिवारायै सवाहनायै महाहुतिं समर्पयामि नमः स्वाहा ॥

Lord Devi Mahatmyam Durga Saptasati Chapter 5 in Sanskrit

Devi Mahatmyam Durga Saptasati Chapter 5 – Sanskrit Lyrics (Text)

Devi Mahatmyam Durga Saptasati Chapter 5 – Sanskrit Script

रचन: ऋषि मार्कण्डेय

देव्या दूत संवादो नाम पञ्चमो ध्यायः ॥

अस्य श्री उत्तरचरित्रस्य रुद्र ऋषिः । श्री महासरस्वती देवता । अनुष्टुप्छन्धः ।भीमा शक्तिः । भ्रामरी बीजम् । सूर्यस्तत्वम् । सामवेदः । स्वरूपम् । श्री महासरस्वतिप्रीत्यर्थे । उत्तरचरित्रपाठे विनियोगः ॥

ध्यानं
घण्टाशूलहलानि शङ्ख मुसले चक्रं धनुः सायकं
हस्ताब्जैर्धदतीं घनान्तविलसच्छीतांशुतुल्यप्रभां
गौरी देह समुद्भवां त्रिजगताम् आधारभूतां महा
पूर्वामत्र सरस्वती मनुभजे शुम्भादिदैत्यार्दिनीं॥

॥ऋषिरुवाच॥ ॥ 1 ॥

पुरा शुम्भनिशुम्भाभ्यामसुराभ्यां शचीपतेः
त्रैलोक्यं यज्ञ्य भागाश्च हृता मदबलाश्रयात् ॥2॥

तावेव सूर्यताम् तद्वदधिकारं तथैन्दवं
कौबेरमथ याम्यं चक्रान्ते वरुणस्य च
तावेव पवनर्द्धि‌உं च चक्रतुर्वह्नि कर्मच
ततो देवा विनिर्धूता भ्रष्टराज्याः पराजिताः ॥3॥

हृताधिकारास्त्रिदशास्ताभ्यां सर्वे निराकृता।
महासुराभ्यां तां देवीं संस्मरन्त्यपराजितां ॥4॥

तयास्माकं वरो दत्तो यधापत्सु स्मृताखिलाः।
भवतां नाशयिष्यामि तत्क्षणात्परमापदः ॥5॥

इतिकृत्वा मतिं देवा हिमवन्तं नगेश्वरं।
जग्मुस्तत्र ततो देवीं विष्णुमायां प्रतुष्टुवुः ॥6॥

देवा ऊचुः

नमो देव्यै महादेव्यै शिवायै सततं नमः।
नमः प्रकृत्यै भद्रायै नियताः प्रणताः स्मतां ॥6॥

रौद्राय नमो नित्यायै गौर्यै धात्र्यै नमो नमः
ज्योत्स्नायै चेन्दुरूपिण्यै सुखायै सततं नमः ॥8॥

कल्याण्यै प्रणता वृद्ध्यै सिद्ध्यै कुर्मो नमो नमः।
नैरृत्यै भूभृतां लक्ष्मै शर्वाण्यै ते नमो नमः ॥9॥

दुर्गायै दुर्गपारायै सारायै सर्वकारिण्यै
ख्यात्यै तथैव कृष्णायै धूम्रायै सततं नमः ॥10॥

अतिसौम्यतिरौद्रायै नतास्तस्यै नमो नमः
नमो जगत्प्रतिष्ठायै देव्यै कृत्यै नमो नमः ॥11॥

यादेवी सर्वभूतेषू विष्णुमायेति शब्धिता।
नमस्तस्यै, नमस्तस्यै,नमस्तस्यै नमोनमः ॥12

यादेवी सर्वभूतेषू चेतनेत्यभिधीयते।
नमस्तस्यै, नमस्तस्यै,नमस्तस्यै नमोनमः ॥13॥

यादेवी सर्वभूतेषू बुद्धिरूपेण संस्थिता।
नमस्तस्यै, नमस्तस्यै,नमस्तस्यै नमोनमः ॥14॥

यादेवी सर्वभूतेषू निद्रारूपेण संस्थिता।
नमस्तस्यै, नमस्तस्यै,नमस्तस्यै नमोनमः ॥15॥

यादेवी सर्वभूतेषू क्षुधारूपेण संस्थिता
नमस्तस्यै, नमस्तस्यै,नमस्तस्यै नमोनमः ॥16॥

यादेवी सर्वभूतेषू छायारूपेण संस्थिता
नमस्तस्यै, नमस्तस्यै,नमस्तस्यै नमोनमः ॥17॥

यादेवी सर्वभूतेषू शक्तिरूपेण संस्थिता
नमस्तस्यै, नमस्तस्यै,नमस्तस्यै नमोनमः ॥18॥

यादेवी सर्वभूतेषू तृष्णारूपेण संस्थिता
नमस्तस्यै, नमस्तस्यै,नमस्तस्यै नमोनमः ॥19॥

यादेवी सर्वभूतेषू क्षान्तिरूपेण संस्थिता
नमस्तस्यै, नमस्तस्यै,नमस्तस्यै नमोनमः ॥20॥

यादेवी सर्वभूतेषू जातिरूपेण संस्थिता
नमस्तस्यै, नमस्तस्यै,नमस्तस्यै नमोनमः ॥21॥

यादेवी सर्वभूतेषू लज्जारूपेण संस्थिता
नमस्तस्यै, नमस्तस्यै,नमस्तस्यै नमोनमः ॥22॥

यादेवी सर्वभूतेषू शान्तिरूपेण संस्थिता
नमस्तस्यै, नमस्तस्यै,नमस्तस्यै नमोनमः ॥23॥

यादेवी सर्वभूतेषू श्रद्धारूपेण संस्थिता
नमस्तस्यै, नमस्तस्यै,नमस्तस्यै नमोनमः ॥24॥

यादेवी सर्वभूतेषू कान्तिरूपेण संस्थिता
नमस्तस्यै, नमस्तस्यै,नमस्तस्यै नमोनमः ॥25॥

यादेवी सर्वभूतेषू लक्ष्मीरूपेण संस्थिता
नमस्तस्यै, नमस्तस्यै,नमस्तस्यै नमोनमः ॥26॥

यादेवी सर्वभूतेषू वृत्तिरूपेण संस्थिता
नमस्तस्यै, नमस्तस्यै,नमस्तस्यै नमोनमः ॥27॥

यादेवी सर्वभूतेषू स्मृतिरूपेण संस्थिता
नमस्तस्यै, नमस्तस्यै,नमस्तस्यै नमोनमः ॥28॥

यादेवी सर्वभूतेषू दयारूपेण संस्थिता
नमस्तस्यै, नमस्तस्यै,नमस्तस्यै नमोनमः ॥29॥

यादेवी सर्वभूतेषू तुष्टिरूपेण संस्थिता
नमस्तस्यै, नमस्तस्यै,नमस्तस्यै नमोनमः ॥30॥

यादेवी सर्वभूतेषू मातृरूपेण संस्थिता
नमस्तस्यै, नमस्तस्यै,नमस्तस्यै नमोनमः ॥31॥

यादेवी सर्वभूतेषू भ्रान्तिरूपेण संस्थिता
नमस्तस्यै, नमस्तस्यै,नमस्तस्यै नमोनमः ॥32॥

इन्द्रियाणामधिष्ठात्री भूतानां चाखिलेषु या।
भूतेषु सततं तस्यै व्याप्ति देव्यै नमो नमः ॥33॥

चितिरूपेण या कृत्स्नमेत द्व्याप्य स्थिता जगत्
नमस्तस्यै, नमस्तस्यै,नमस्तस्यै नमोनमः ॥34॥

स्तुतासुरैः पूर्वमभीष्ट संश्रयात्तथा
सुरेन्द्रेण दिनेषुसेविता।
करोतुसा नः शुभहेतुरीश्वरी
शुभानि भद्राण्य भिहन्तु चापदः ॥35॥

या साम्प्रतं चोद्धतदैत्यतापितै
रस्माभिरीशाचसुरैर्नमश्यते।
याच स्मता तत्‍क्षण मेव हन्ति नः
सर्वा पदोभक्तिविनम्रमूर्तिभिः ॥36॥

ऋषिरुवाच॥

एवं स्तवाभि युक्तानां देवानां तत्र पार्वती।
स्नातुमभ्याययौ तोये जाह्नव्या नृपनन्दन ॥37॥

साब्रवीत्तान् सुरान् सुभ्रूर्भवद्भिः स्तूयते‌உत्र का
शरीरकोशतश्चास्याः समुद्भूता‌உ ब्रवीच्छिवा ॥38॥

स्तोत्रं ममैतत्क्रियते शुम्भदैत्य निराकृतैः
देवैः समेतैः समरे निशुम्भेन पराजितैः ॥39॥

शरीरकोशाद्यत्तस्याः पार्वत्या निःसृताम्बिका।
कौशिकीति समस्तेषु ततो लोकेषु गीयते ॥40॥

तस्यांविनिर्गतायां तु कृष्णाभूत्सापि पार्वती।
कालिकेति समाख्याता हिमाचलकृताश्रया ॥41॥

ततो‌உम्बिकां परं रूपं बिभ्राणां सुमनोहरम् ।
ददर्श चण्दो मुण्दश्च भृत्यौ शुम्भनिशुम्भयोः ॥42॥

ताभ्यां शुम्भाय चाख्याता सातीव सुमनोहरा।
काप्यास्ते स्त्री महाराज भास यन्ती हिमाचलम् ॥43॥

नैव तादृक् क्वचिद्रूपं दृष्टं केनचिदुत्तमम्।
ज्ञायतां काप्यसौ देवी गृह्यतां चासुरेश्वर ॥44॥

स्त्री रत्न मतिचार्वञ्ज्गी द्योतयन्तीदिशस्त्विषा।
सातुतिष्टति दैत्येन्द्र तां भवान् द्रष्टु मर्हति ॥45॥

यानि रत्नानि मणयो गजाश्वादीनि वै प्रभो।
त्रै लोक्येतु समस्तानि साम्प्रतं भान्तिते गृहे ॥46॥

ऐरावतः समानीतो गजरत्नं पुनर्दरात्।
पारिजात तरुश्चायं तथैवोच्चैः श्रवा हयः ॥47॥

विमानं हंससंयुक्तमेतत्तिष्ठति ते‌உङ्गणे।
रत्नभूत मिहानीतं यदासीद्वेधसो‌உद्भुतं ॥48॥

निधिरेष महा पद्मः समानीतो धनेश्वरात्।
किञ्जल्किनीं ददौ चाब्धिर्मालामम्लानपज्कजां ॥49॥

छत्रं तेवारुणं गेहे काञ्चनस्रावि तिष्ठति।
तथायं स्यन्दनवरो यः पुरासीत्प्रजापतेः ॥50॥

मृत्योरुत्क्रान्तिदा नाम शक्तिरीश त्वया हृता।
पाशः सलिल राजस्य भ्रातुस्तव परिग्रहे ॥51॥

निशुम्भस्याब्धिजाताश्च समस्ता रत्न जातयः।
वह्निश्चापि ददौ तुभ्य मग्निशौचे च वाससी ॥52॥

एवं दैत्येन्द्र रत्नानि समस्तान्याहृतानि ते
स्त्र्री रत्न मेषा कल्याणी त्वया कस्मान्न गृह्यते ॥53॥

ऋषिरुवाच।

निशम्येति वचः शुम्भः स तदा चण्डमुण्डयोः।
प्रेषयामास सुग्रीवं दूतं देव्या महासुरं ॥54॥

इति चेति च वक्तव्या सा गत्वा वचनान्मम।
यथा चाभ्येति सम्प्रीत्या तथा कार्यं त्वया लघु ॥55॥

सतत्र गत्वा यत्रास्ते शैलोद्दोशे‌உतिशोभने।
सादेवी तां ततः प्राह श्लक्ष्णं मधुरया गिरा ॥56॥

दूत उवाच॥

देवि दैत्येश्वरः शुम्भस्त्रेलोक्ये परमेश्वरः।
दूतो‌உहं प्रेषि तस्तेन त्वत्सकाशमिहागतः ॥57॥

अव्याहताज्ञः सर्वासु यः सदा देवयोनिषु।
निर्जिताखिल दैत्यारिः स यदाह शृणुष्व तत् ॥58॥

ममत्रैलोक्य मखिलं ममदेवा वशानुगाः।
यज्ञभागानहं सर्वानुपाश्नामि पृथक् पृथक् ॥59॥

त्रैलोक्येवररत्नानि मम वश्यान्यशेषतः।
तथैव गजरत्नं च हृतं देवेन्द्रवाहनं ॥60॥

क्षीरोदमथनोद्भूत मश्वरत्नं ममामरैः।
उच्चैःश्रवससञ्ज्ञं तत्प्रणिपत्य समर्पितं ॥61॥

यानिचान्यानि देवेषु गन्धर्वेषूरगेषु च ।
रत्नभूतानि भूतानि तानि मय्येव शोभने ॥62॥

स्त्री रत्नभूतां तां देवीं लोके मन्या महे वयं।
सा त्वमस्मानुपागच्छ यतो रत्नभुजो वयं ॥63॥

मांवा ममानुजं वापि निशुम्भमुरुविक्रमम्।
भजत्वं चञ्चलापाज्गि रत्न भूतासि वै यतः ॥64॥

परमैश्वर्य मतुलं प्राप्स्यसे मत्परिग्रहात्।
एतद्भुद्थ्या समालोच्य मत्परिग्रहतां व्रज ॥65॥

ऋषिरुवाच॥

इत्युक्ता सा तदा देवी गम्भीरान्तःस्मिता जगौ।
दुर्गा भगवती भद्रा ययेदं धार्यते जगत् ॥66॥

देव्युवाच॥

सत्य मुक्तं त्वया नात्र मिथ्याकिञ्चित्त्वयोदितम्।
त्रैलोक्याधिपतिः शुम्भो निशुम्भश्चापि तादृशः ॥67॥

किं त्वत्र यत्प्रतिज्ञातं मिथ्या तत्क्रियते कथम्।
श्रूयतामल्पभुद्धित्वात् त्प्रतिज्ञा या कृता पुरा ॥68॥

योमाम् जयति सज्ग्रामे यो मे दर्पं व्यपोहति।
योमे प्रतिबलो लोके स मे भर्ता भविष्यति ॥69॥

तदागच्छतु शुम्भो‌உत्र निशुम्भो वा महासुरः।
मां जित्वा किं चिरेणात्र पाणिङ्गृह्णातुमेलघु ॥70॥

दूत उवाच॥

अवलिप्तासि मैवं त्वं देवि ब्रूहि ममाग्रतः।
त्रैलोक्येकः पुमांस्तिष्टेद् अग्रे शुम्भनिशुम्भयोः ॥71॥

अन्येषामपि दैत्यानां सर्वे देवा न वै युधि।
किं तिष्ठन्ति सुम्मुखे देवि पुनः स्त्री त्वमेकिका ॥72॥

इन्द्राद्याः सकला देवास्तस्थुर्येषां न संयुगे।
शुम्भादीनां कथं तेषां स्त्री प्रयास्यसि सम्मुखम् ॥73॥

सात्वं गच्छ मयैवोक्ता पार्श्वं शुम्भनिशुम्भयोः।
केशाकर्षण निर्धूत गौरवा मा गमिष्यसि॥74॥

देव्युवाच।

एवमेतद् बली शुम्भो निशुम्भश्चातिवीर्यवान्।
किं करोमि प्रतिज्ञा मे यदनालोचितापुरा ॥75॥

सत्वं गच्छ मयोक्तं ते यदेतत्त्सर्व मादृतः।
तदाचक्ष्वा सुरेन्द्राय स च युक्तं करोतु यत् ॥76॥

॥ इति श्री मार्कण्डेय पुराणे सावर्निके मन्वन्तरे देवि महत्म्ये देव्या दूत संवादो नाम पञ्चमो ध्यायः समाप्तम् ॥

आहुति
क्लीं जयन्ती साङ्गायै सायुधायै सशक्तिकायै सपरिवारायै सवाहनायै धूम्राक्ष्यै विष्णुमायादि चतुर्विंशद् देवताभ्यो महाहुतिं समर्पयामि नमः स्वाहा ॥

Lord Devi Mahatmyam Durga Saptasati Chapter 4 in Sanskrit

Devi Mahatmyam Durga Saptasati Chapter 4 – Sanskrit Lyrics (Text)

Devi Mahatmyam Durga Saptasati Chapter 4 – Sanskrit Script

रचन: ऋषि मार्कण्डेय

शक्रादिस्तुतिर्नाम चतुर्धो‌உध्यायः ॥

ध्यानं
कालाभ्राभां कटाक्षैर् अरि कुल भयदां मौलि बद्धेन्दु रेखां
शङ्ख चक्र कृपाणं त्रिशिख मपि करैर् उद्वहन्तीं त्रिन्त्राम् ।
सिंह स्कन्दाधिरूढां त्रिभुवन मखिलं तेजसा पूरयन्तीं
ध्यायेद् दुर्गां जयाख्यां त्रिदश परिवृतां सेवितां सिद्धि कामैः ॥

ऋषिरुवाच ॥1॥

शक्रादयः सुरगणा निहते‌உतिवीर्ये
तस्मिन्दुरात्मनि सुरारिबले च देव्या ।
तां तुष्टुवुः प्रणतिनम्रशिरोधरांसा
वाग्भिः प्रहर्षपुलकोद्गमचारुदेहाः ॥ 2 ॥

देव्या यया ततमिदं जगदात्मशक्त्या
निःशेषदेवगणशक्तिसमूहमूर्त्या ।
तामम्बिकामखिलदेवमहर्षिपूज्यां
भक्त्या नताः स्म विदधातुशुभानि सा नः ॥3॥

यस्याः प्रभावमतुलं भगवाननन्तो
ब्रह्मा हरश्च नहि वक्तुमलं बलं च ।
सा चण्डिका‌உखिल जगत्परिपालनाय
नाशाय चाशुभभयस्य मतिं करोतु ॥4॥

या श्रीः स्वयं सुकृतिनां भवनेष्वलक्ष्मीः
पापात्मनां कृतधियां हृदयेषु बुद्धिः ।
श्रद्था सतां कुलजनप्रभवस्य लज्जा
तां त्वां नताः स्म परिपालय देवि विश्वम् ॥5॥

किं वर्णयाम तवरूप मचिन्त्यमेतत्
किञ्चातिवीर्यमसुरक्षयकारि भूरि ।
किं चाहवेषु चरितानि तवात्भुतानि
सर्वेषु देव्यसुरदेवगणादिकेषु । ॥6॥

हेतुः समस्तजगतां त्रिगुणापि दोषैः
न ज्ञायसे हरिहरादिभिरव्यपारा ।
सर्वाश्रयाखिलमिदं जगदंशभूतं
अव्याकृता हि परमा प्रकृतिस्त्वमाद्या ॥6॥

यस्याः समस्तसुरता समुदीरणेन
तृप्तिं प्रयाति सकलेषु मखेषु देवि ।
स्वाहासि वै पितृ गणस्य च तृप्ति हेतु
रुच्चार्यसे त्वमत एव जनैः स्वधाच ॥8॥

या मुक्तिहेतुरविचिन्त्य महाव्रता त्वं
अभ्यस्यसे सुनियतेन्द्रियतत्वसारैः ।
मोक्षार्थिभिर्मुनिभिरस्तसमस्तदोषै
र्विद्या‌உसि सा भगवती परमा हि देवि ॥9॥

शब्दात्मिका सुविमलर्ग्यजुषां निधानं
मुद्गीथरम्यपदपाठवतां च साम्नाम् ।
देवी त्रयी भगवती भवभावनाय
वार्तासि सर्व जगतां परमार्तिहन्त्री ॥10॥

मेधासि देवि विदिताखिलशास्त्रसारा
दुर्गा‌உसि दुर्गभवसागरसनौरसङ्गा ।
श्रीः कैट भारिहृदयैककृताधिवासा
गौरी त्वमेव शशिमौलिकृत प्रतिष्ठा ॥11॥

ईषत्सहासममलं परिपूर्ण चन्द्र
बिम्बानुकारि कनकोत्तमकान्तिकान्तम् ।
अत्यद्भुतं प्रहृतमात्तरुषा तथापि
वक्त्रं विलोक्य सहसा महिषासुरेण ॥12॥

दृष्ट्वातु देवि कुपितं भ्रुकुटीकराल
मुद्यच्छशाङ्कसदृशच्छवि यन्न सद्यः ।
प्राणान् मुमोच महिषस्तदतीव चित्रं
कैर्जीव्यते हि कुपितान्तकदर्शनेन । ॥13॥

देविप्रसीद परमा भवती भवाय
सद्यो विनाशयसि कोपवती कुलानि ।
विज्ञातमेतदधुनैव यदस्तमेतत्
न्नीतं बलं सुविपुलं महिषासुरस्य ॥14॥

ते सम्मता जनपदेषु धनानि तेषां
तेषां यशांसि न च सीदति धर्मवर्गः ।
धन्यास्त‌एव निभृतात्मजभृत्यदारा
येषां सदाभ्युदयदा भवती प्रसन्ना ॥15॥

धर्म्याणि देवि सकलानि सदैव कर्मानि
ण्यत्यादृतः प्रतिदिनं सुकृती करोति ।
स्वर्गं प्रयाति च ततो भवती प्रसादा
ल्लोकत्रये‌உपि फलदा ननु देवि तेन ॥16॥

दुर्गे स्मृता हरसि भीति मशेश जन्तोः
स्वस्थैः स्मृता मतिमतीव शुभां ददासि ।
दारिद्र्यदुःखभयहारिणि का त्वदन्या
सर्वोपकारकरणाय सदार्द्रचित्ता ॥17॥

एभिर्हतैर्जगदुपैति सुखं तथैते
कुर्वन्तु नाम नरकाय चिराय पापम् ।
सङ्ग्राममृत्युमधिगम्य दिवम्प्रयान्तु
मत्वेति नूनमहितान्विनिहंसि देवि ॥18॥

दृष्ट्वैव किं न भवती प्रकरोति भस्म
सर्वासुरानरिषु यत्प्रहिणोषि शस्त्रम् ।
लोकान्प्रयान्तु रिपवो‌உपि हि शस्त्रपूता
इत्थं मतिर्भवति तेष्वहि ते‌உषुसाध्वी ॥19॥

खड्ग प्रभानिकरविस्फुरणैस्तधोग्रैः
शूलाग्रकान्तिनिवहेन दृशो‌உसुराणाम् ।
यन्नागता विलयमंशुमदिन्दुखण्ड
योग्याननं तव विलोक यतां तदेतत् ॥20॥

दुर्वृत्त वृत्त शमनं तव देवि शीलं
रूपं तथैतदविचिन्त्यमतुल्यमन्यैः ।
वीर्यं च हन्तृ हृतदेवपराक्रमाणां
वैरिष्वपि प्रकटितैव दया त्वयेत्थम् ॥21॥

केनोपमा भवतु ते‌உस्य पराक्रमस्य
रूपं च शतृभय कार्यतिहारि कुत्र ।
चित्तेकृपा समरनिष्टुरता च दृष्टा
त्वय्येव देवि वरदे भुवनत्रये‌உपि ॥22॥

त्रैलोक्यमेतदखिलं रिपुनाशनेन
त्रातं त्वया समरमूर्धनि ते‌உपि हत्वा ।
नीता दिवं रिपुगणा भयमप्यपास्तं
अस्माकमुन्मदसुरारिभवं नमस्ते ॥23॥

शूलेन पाहि नो देवि पाहि खड्गेन चाम्भिके ।
घण्टास्वनेन नः पाहि चापज्यानिस्वनेन च ॥24॥

प्राच्यां रक्ष प्रतीच्यां च चण्डिके रक्ष दक्षिणे ।
भ्रामणेनात्मशूलस्य उत्तरस्यां तथेश्वरी ॥25॥

सौम्यानि यानि रूपाणि त्रैलोक्ये विचरन्तिते ।
यानि चात्यन्त घोराणि तैरक्षास्मांस्तथाभुवम् ॥26॥

खड्गशूलगदादीनि यानि चास्त्राणि ते‌உम्बिके ।
करपल्लवसङ्गीनि तैरस्मान्रक्ष सर्वतः ॥27॥

ऋषिरुवाच ॥28॥

एवं स्तुता सुरैर्दिव्यैः कुसुमैर्नन्दनोद्भवैः ।
अर्चिता जगतां धात्री तथा गन्धानु लेपनैः ॥29॥

भक्त्या समस्तैस्रि शैर्दिव्यैर्धूपैः सुधूपिता ।
प्राह प्रसादसुमुखी समस्तान् प्रणतान् सुरान्। ॥30॥

देव्युवाच ॥31॥

व्रियतां त्रिदशाः सर्वे यदस्मत्तो‌உभिवाञ्छितम् ॥32॥

देवा ऊचु ॥33॥

भगवत्या कृतं सर्वं न किञ्चिदवशिष्यते ।
यदयं निहतः शत्रु रस्माकं महिषासुरः ॥34॥

यदिचापि वरो देय स्त्वया‌உस्माकं महेश्वरि ।
संस्मृता संस्मृता त्वं नो हिं सेथाःपरमापदः॥35॥

यश्च मर्त्यः स्तवैरेभिस्त्वां स्तोष्यत्यमलानने ।
तस्य वित्तर्द्धिविभवैर्धनदारादि सम्पदाम् ॥36॥

वृद्दये‌உ स्मत्प्रसन्ना त्वं भवेथाः सर्वदाम्भिके ॥37॥

ऋषिरुवाच ॥38॥

इति प्रसादिता देवैर्जगतो‌உर्थे तथात्मनः ।
तथेत्युक्त्वा भद्रकाली बभूवान्तर्हिता नृप ॥39॥

इत्येतत्कथितं भूप सम्भूता सा यथापुरा ।
देवी देवशरीरेभ्यो जगत्प्रयहितैषिणी ॥40॥

पुनश्च गौरी देहात्सा समुद्भूता यथाभवत् ।
वधाय दुष्ट दैत्यानां तथा शुम्भनिशुम्भयोः ॥41॥

रक्षणाय च लोकानां देवानामुपकारिणी ।
तच्छृ णुष्व मयाख्यातं यथावत्कथयामिते
ह्रीम् ॐ ॥42॥

॥ जय जय श्री मार्कण्डेय पुराणे सावर्निके मन्वन्तरे देवि महत्म्ये शक्रादिस्तुतिर्नाम चतुर्धो‌உध्यायः समाप्तम् ॥

आहुति
ह्रीं जयन्ती साङ्गायै सायुधायै सशक्तिकायै सपरिवारायै सवाहनायै श्री महालक्ष्म्यै लक्ष्मी बीजादिष्टायै महाहुतिं समर्पयामि नमः स्वाहा ॥

Lord Devi Mahatmyam Durga Saptasati Chapter 3 in Sanskrit

Devi Mahatmyam Durga Saptasati Chapter 3 – Sanskrit Lyrics (Text)

Devi Mahatmyam Durga Saptasati Chapter 3 – Sanskrit Script

रचन: ऋषि मार्कण्डेय

महिषासुरवधो नाम तृतीयो‌உध्यायः ॥

ध्यानं
ॐ उद्यद्भानुसहस्रकान्तिम् अरुणक्षौमां शिरोमालिकां
रक्तालिप्त पयोधरां जपवटीं विद्यामभीतिं वरम् ।
हस्ताब्जैर्धधतीं त्रिनेत्रवक्त्रारविन्दश्रियं
देवीं बद्धहिमांशुरत्नमकुटां वन्दे‌உरविन्दस्थिताम् ॥

ऋषिरुवाच ॥1॥

निहन्यमानं तत्सैन्यम् अवलोक्य महासुरः।
सेनानीश्चिक्षुरः कोपाद् ध्ययौ योद्धुमथाम्बिकाम् ॥2॥

स देवीं शरवर्षेण ववर्ष समरे‌உसुरः।
यथा मेरुगिरेःशृङ्गं तोयवर्षेण तोयदः ॥3॥

तस्य छित्वा ततो देवी लीलयैव शरोत्करान्।
जघान तुरगान्बाणैर्यन्तारं चैव वाजिनाम् ॥4॥

चिच्छेद च धनुःसध्यो ध्वजं चातिसमुच्छृतम्।
विव्याध चैव गात्रेषु चिन्नधन्वानमाशुगैः ॥5॥

सच्छिन्नधन्वा विरथो हताश्वो हतसारथिः।
अभ्यधावत तां देवीं खड्गचर्मधरो‌உसुरः ॥6॥

सिंहमाहत्य खड्गेन तीक्ष्णधारेण मूर्धनि।
आजघान भुजे सव्ये देवीम् अव्यतिवेगवान् ॥6॥

तस्याः खड्गो भुजं प्राप्य पफाल नृपनन्दन।
ततो जग्राह शूलं स कोपाद् अरुणलोचनः ॥8॥

चिक्षेप च ततस्तत्तु भद्रकाल्यां महासुरः।
जाज्वल्यमानं तेजोभी रविबिम्बमिवाम्बरात् ॥9॥

दृष्ट्वा तदापतच्छूलं देवी शूलममुञ्चत।
तच्छूलंशतधा तेन नीतं शूलं स च महासुरः ॥10॥

हते तस्मिन्महावीर्ये महिषस्य चमूपतौ।
आजगाम गजारूडः श्चामरस्त्रिदशार्दनः ॥11॥

सो‌உपि शक्तिंमुमोचाथ देव्यास्ताम् अम्बिका द्रुतम्।
हुङ्काराभिहतां भूमौ पातयामासनिष्प्रभाम् ॥12॥

भग्नां शक्तिं निपतितां दृष्ट्वा क्रोधसमन्वितः
चिक्षेप चामरः शूलं बाणैस्तदपि साच्छिनत् ॥13॥

ततः सिंहःसमुत्पत्य गजकुन्तरे म्भान्तरेस्थितः।
बाहुयुद्धेन युयुधे तेनोच्चैस्त्रिदशारिणा ॥14॥

युध्यमानौ ततस्तौ तु तस्मान्नागान्महीं गतौ
युयुधाते‌உतिसंरब्धौ प्रहारै अतिदारुणैः ॥15॥

ततो वेगात् खमुत्पत्य निपत्य च मृगारिणा।
करप्रहारेण शिरश्चामरस्य पृथक् कृतम् ॥16॥

उदग्रश्च रणे देव्या शिलावृक्षादिभिर्हतः।
दन्त मुष्टितलैश्चैव करालश्च निपातितः ॥17॥

देवी कृद्धा गदापातैः श्चूर्णयामास चोद्धतम्।
भाष्कलं भिन्दिपालेन बाणैस्ताम्रं तथान्धकम् ॥18॥

उग्रास्यमुग्रवीर्यं च तथैव च महाहनुम्
त्रिनेत्रा च त्रिशूलेन जघान परमेश्वरी ॥19॥

बिडालस्यासिना कायात् पातयामास वै शिरः।
दुर्धरं दुर्मुखं चोभौ शरैर्निन्ये यमक्षयम् ॥20॥

एवं सङ्क्षीयमाणे तु स्वसैन्ये महिषासुरः।
माहिषेण स्वरूपेण त्रासयामासतान् गणान् ॥21॥

कांश्चित्तुण्डप्रहारेण खुरक्षेपैस्तथापरान्।
लाङ्गूलताडितांश्चान्यान् शृङ्गाभ्यां च विदारिता ॥22॥

वेगेन कांश्चिदपरान्नादेन भ्रमणेन च।
निः श्वासपवनेनान्यान् पातयामास भूतले॥23॥

निपात्य प्रमथानीकमभ्यधावत सो‌உसुरः
सिंहं हन्तुं महादेव्याः कोपं चक्रे ततो‌உम्भिका ॥24॥

सो‌உपि कोपान्महावीर्यः खुरक्षुण्णमहीतलः।
शृङ्गाभ्यां पर्वतानुच्चांश्चिक्षेप च ननाद च ॥25॥

वेग भ्रमण विक्षुण्णा मही तस्य व्यशीर्यत।
लाङ्गूलेनाहतश्चाब्धिः प्लावयामास सर्वतः ॥26॥

धुतशृङ्ग्विभिन्नाश्च खण्डं खण्डं ययुर्घनाः।
श्वासानिलास्ताः शतशो निपेतुर्नभसो‌உचलाः ॥27॥

इतिक्रोधसमाध्मातमापतन्तं महासुरम्।
दृष्ट्वा सा चण्डिका कोपं तद्वधाय तदा‌உकरोत् ॥28॥

सा क्षित्प्वा तस्य वैपाशं तं बबन्ध महासुरम्।
तत्याजमाहिषं रूपं सो‌உपि बद्धो महामृधे ॥29॥

ततः सिंहो‌உभवत्सध्यो यावत्तस्याम्बिका शिरः।
छिनत्ति तावत् पुरुषः खड्गपाणि रदृश्यत ॥30॥

तत एवाशु पुरुषं देवी चिच्छेद सायकैः।
तं खड्गचर्मणा सार्धं ततः सो‌உ भून्महा गजः ॥31॥

करेण च महासिंहं तं चकर्ष जगर्जच ।
कर्षतस्तु करं देवी खड्गेन निरकृन्तत ॥32॥

ततो महासुरो भूयो माहिषं वपुरास्थितः।
तथैव क्षोभयामास त्रैलोक्यं सचराचरम् ॥33॥

ततः क्रुद्धा जगन्माता चण्डिका पान मुत्तमम्।
पपौ पुनः पुनश्चैव जहासारुणलोचना ॥34॥

ननर्द चासुरः सो‌உपि बलवीर्यमदोद्धतः।
विषाणाभ्यां च चिक्षेप चण्डिकां प्रतिभूधरान् ॥35॥

सा च ता न्प्रहितां स्तेन चूर्णयन्ती शरोत्करैः।
उवाच तं मदोद्धूतमुखरागाकुलाक्षरम् ॥36॥

देव्यु‌उवाच॥

गर्ज गर्ज क्षणं मूढ मधु यावत्पिबाम्यहम्।
मयात्वयि हते‌உत्रैव गर्जिष्यन्त्याशु देवताः ॥37॥

ऋषिरुवाच॥

एवमुक्त्वा समुत्पत्य सारूढा तं महासुरम्।
पादेना क्रम्य कण्ठे च शूलेनैन मताडयत् ॥38॥

ततः सो‌உपि पदाक्रान्तस्तया निजमुखात्ततः।
अर्ध निष्क्रान्त एवासीद्देव्या वीर्येण संवृतः ॥40॥

अर्ध निष्क्रान्त एवासौ युध्यमानो महासुरः ।
तया महासिना देव्या शिरश्छित्त्वा निपातितः ॥41॥

ततो हाहाकृतं सर्वं दैत्यसैन्यं ननाश तत्।
प्रहर्षं च परं जग्मुः सकला देवतागणाः ॥42॥

तुष्टु वुस्तां सुरा देवीं सहदिव्यैर्महर्षिभिः।
जगुर्गुन्धर्वपतयो ननृतुश्चाप्सरोगणाः ॥43॥

॥ इति श्री मार्कण्डेय पुराणे सावर्निके मन्वन्तरे देवि महत्म्ये महिषासुरवधो नाम तृतीयो‌உध्यायं समाप्तम् ॥

आहुति
ह्रीं जयन्ती साङ्गायै सायुधायै सशक्तिकायै सपरिवारायै सवाहनायै श्री महालक्ष्म्यै लक्ष्मी बीजादिष्टायै महाहुतिं समर्पयामि नमः स्वाहा ॥

Lord Devi Mahatmyam Durga Saptasati Chapter 2 in Sanskrit

Devi Mahatmyam Durga Saptasati Chapter 2 – Sanskrit Lyrics (Text)

Devi Mahatmyam Durga Saptasati Chapter 2 – Sanskrit Script

रचन: ऋषि मार्कण्डेय

महिषासुर सैन्यवधो नाम द्वितीयो‌உध्यायः ॥

अस्य सप्त सतीमध्यम चरित्रस्य विष्णुर् ऋषिः । उष्णिक् छन्दः । श्रीमहालक्ष्मीदेवता। शाकम्भरी शक्तिः । दुर्गा बीजम् । वायुस्तत्त्वम् । यजुर्वेदः स्वरूपम् । श्री महालक्ष्मीप्रीत्यर्थे मध्यम चरित्र जपे विनियोगः ॥

ध्यानं
ॐ अक्षस्रक्परशुं गदेषुकुलिशं पद्मं धनुः कुण्डिकां
दण्डं शक्तिमसिं च चर्म जलजं घण्टां सुराभाजनम् ।
शूलं पाशसुदर्शने च दधतीं हस्तैः प्रवाल प्रभां
सेवे सैरिभमर्दिनीमिह महलक्ष्मीं सरोजस्थिताम् ॥

ऋषिरुवाच ॥1॥

देवासुरमभूद्युद्धं पूर्णमब्दशतं पुरा।
महिषे‌உसुराणाम् अधिपे देवानाञ्च पुरन्दरे

तत्रासुरैर्महावीर्यिर्देवसैन्यं पराजितं।
जित्वा च सकलान् देवान् इन्द्रो‌உभून्महिषासुरः ॥3॥

ततः पराजिता देवाः पद्मयोनिं प्रजापतिम्।
पुरस्कृत्यगतास्तत्र यत्रेश गरुडध्वजौ ॥4॥

यथावृत्तं तयोस्तद्वन् महिषासुरचेष्टितम्।
त्रिदशाः कथयामासुर्देवाभिभवविस्तरम् ॥5॥

सूर्येन्द्राग्न्यनिलेन्दूनां यमस्य वरुणस्य च
अन्येषां चाधिकारान्स स्वयमेवाधितिष्टति ॥6॥

स्वर्गान्निराकृताः सर्वे तेन देव गणा भुविः।
विचरन्ति यथा मर्त्या महिषेण दुरात्मना ॥6॥

एतद्वः कथितं सर्वम् अमरारिविचेष्टितम्।
शरणं वः प्रपन्नाः स्मो वधस्तस्य विचिन्त्यताम् ॥8॥

इत्थं निशम्य देवानां वचांसि मधुसूधनः
चकार कोपं शम्भुश्च भ्रुकुटीकुटिलाननौ ॥9॥

ततो‌உतिकोपपूर्णस्य चक्रिणो वदनात्ततः।
निश्चक्राम महत्तेजो ब्रह्मणः शङ्करस्य च ॥10॥

अन्येषां चैव देवानां शक्रादीनां शरीरतः।
निर्गतं सुमहत्तेजः स्तच्चैक्यं समगच्छत ॥11॥

अतीव तेजसः कूटं ज्वलन्तमिव पर्वतम्।
ददृशुस्ते सुरास्तत्र ज्वालाव्याप्तदिगन्तरम् ॥12॥

अतुलं तत्र तत्तेजः सर्वदेव शरीरजम्।
एकस्थं तदभून्नारी व्याप्तलोकत्रयं त्विषा ॥13॥

यदभूच्छाम्भवं तेजः स्तेनाजायत तन्मुखम्।
याम्येन चाभवन् केशा बाहवो विष्णुतेजसा ॥14॥

सौम्येन स्तनयोर्युग्मं मध्यं चैन्द्रेण चाभवत्।
वारुणेन च जङ्घोरू नितम्बस्तेजसा भुवः ॥15॥

ब्रह्मणस्तेजसा पादौ तदङ्गुल्यो‌உर्क तेजसा।
वसूनां च कराङ्गुल्यः कौबेरेण च नासिका ॥16॥

तस्यास्तु दन्ताः सम्भूता प्राजापत्येन तेजसा
नयनत्रितयं जज्ञे तथा पावकतेजसा ॥17॥

भ्रुवौ च सन्ध्ययोस्तेजः श्रवणावनिलस्य च
अन्येषां चैव देवानां सम्भवस्तेजसां शिव ॥18॥

ततः समस्त देवानां तेजोराशिसमुद्भवाम्।
तां विलोक्य मुदं प्रापुः अमरा महिषार्दिताः ॥19॥

शूलं शूलाद्विनिष्कृष्य ददौ तस्यै पिनाकधृक्।
चक्रं च दत्तवान् कृष्णः समुत्पाट्य स्वचक्रतः ॥20॥

शङ्खं च वरुणः शक्तिं ददौ तस्यै हुताशनः
मारुतो दत्तवांश्चापं बाणपूर्णे तथेषुधी ॥21॥

वज्रमिन्द्रः समुत्पाट्य कुलिशादमराधिपः।
ददौ तस्यै सहस्राक्षो घण्टामैरावताद्गजात् ॥22॥

कालदण्डाद्यमो दण्डं पाशं चाम्बुपतिर्ददौ।
प्रजापतिश्चाक्षमालां ददौ ब्रह्मा कमण्डलं ॥23॥

समस्तरोमकूपेषु निज रश्मीन् दिवाकरः
कालश्च दत्तवान् खड्गं तस्याः श्चर्म च निर्मलम् ॥24॥

क्षीरोदश्चामलं हारम् अजरे च तथाम्बरे
चूडामणिं तथादिव्यं कुण्डले कटकानिच ॥25॥

अर्धचन्द्रं तधा शुभ्रं केयूरान् सर्व बाहुषु
नूपुरौ विमलौ तद्व द्ग्रैवेयकमनुत्तमम् ॥26॥

अङ्गुलीयकरत्नानि समस्तास्वङ्गुलीषु च
विश्व कर्मा ददौ तस्यै परशुं चाति निर्मलं ॥27॥

अस्त्राण्यनेकरूपाणि तथा‌உभेद्यं च दंशनम्।
अम्लान पङ्कजां मालां शिरस्यु रसि चापराम्॥28॥

अददज्जलधिस्तस्यै पङ्कजं चातिशोभनम्।
हिमवान् वाहनं सिंहं रत्नानि विविधानिच ॥29॥

ददावशून्यं सुरया पानपात्रं दनाधिपः।
शेषश्च सर्व नागेशो महामणि विभूषितम् ॥30॥

नागहारं ददौ तस्यै धत्ते यः पृथिवीमिमाम्।
अन्यैरपि सुरैर्देवी भूषणैः आयुधैस्तथाः ॥31॥

सम्मानिता ननादोच्चैः साट्टहासं मुहुर्मुहु।
तस्यानादेन घोरेण कृत्स्न मापूरितं नभः ॥32॥

अमायतातिमहता प्रतिशब्दो महानभूत्।
चुक्षुभुः सकलालोकाः समुद्राश्च चकम्पिरे ॥33॥

चचाल वसुधा चेलुः सकलाश्च महीधराः।
जयेति देवाश्च मुदा तामूचुः सिंहवाहिनीम् ॥34॥

तुष्टुवुर्मुनयश्चैनां भक्तिनम्रात्ममूर्तयः।
दृष्ट्वा समस्तं सङ्क्षुब्धं त्रैलोक्यम् अमरारयः ॥35॥

सन्नद्धाखिलसैन्यास्ते समुत्तस्थुरुदायुदाः।
आः किमेतदिति क्रोधादाभाष्य महिषासुरः ॥36॥

अभ्यधावत तं शब्दम् अशेषैरसुरैर्वृतः।
स ददर्ष ततो देवीं व्याप्तलोकत्रयां त्विषा ॥37॥

पादाक्रान्त्या नतभुवं किरीटोल्लिखिताम्बराम्।
क्षोभिताशेषपातालां धनुर्ज्यानिःस्वनेन ताम् ॥38॥

दिशो भुजसहस्रेण समन्ताद्व्याप्य संस्थिताम्।
ततः प्रववृते युद्धं तया देव्या सुरद्विषां ॥39॥

शस्त्रास्त्रैर्भहुधा मुक्तैरादीपितदिगन्तरम्।
महिषासुरसेनानीश्चिक्षुराख्यो महासुरः ॥40॥

युयुधे चमरश्चान्यैश्चतुरङ्गबलान्वितः।
रथानामयुतैः षड्भिः रुदग्राख्यो महासुरः ॥41॥

अयुध्यतायुतानां च सहस्रेण महाहनुः।
पञ्चाशद्भिश्च नियुतैरसिलोमा महासुरः ॥42॥

अयुतानां शतैः षड्भिःर्भाष्कलो युयुधे रणे।
गजवाजि सहस्रौघै रनेकैः परिवारितः ॥43॥

वृतो रथानां कोट्या च युद्धे तस्मिन्नयुध्यत।
बिडालाख्यो‌உयुतानां च पञ्चाशद्भिरथायुतैः ॥44॥

युयुधे संयुगे तत्र रथानां परिवारितः।
अन्ये च तत्रायुतशो रथनागहयैर्वृताः ॥45॥

युयुधुः संयुगे देव्या सह तत्र महासुराः।
कोटिकोटिसहस्त्रैस्तु रथानां दन्तिनां तथा ॥46॥

हयानां च वृतो युद्धे तत्राभून्महिषासुरः।
तोमरैर्भिन्धिपालैश्च शक्तिभिर्मुसलैस्तथा ॥47॥

युयुधुः संयुगे देव्या खड्गैः परसुपट्टिसैः।
केचिच्छ चिक्षिपुः शक्तीः केचित् पाशांस्तथापरे ॥48॥

देवीं खड्गप्रहारैस्तु ते तां हन्तुं प्रचक्रमुः।
सापि देवी ततस्तानि शस्त्राण्यस्त्राणि चण्डिका ॥49॥

लील यैव प्रचिच्छेद निजशस्त्रास्त्रवर्षिणी।
अनायस्तानना देवी स्तूयमाना सुरर्षिभिः ॥50॥

मुमोचासुरदेहेषु शस्त्राण्यस्त्राणि चेश्वरी।
सो‌உपि क्रुद्धो धुतसटो देव्या वाहनकेसरी ॥51॥

चचारासुर सैन्येषु वनेष्विव हुताशनः।
निःश्वासान् मुमुचेयांश्च युध्यमानारणे‌உम्बिका॥52॥

त एव सध्यसम्भूता गणाः शतसहस्रशः।
युयुधुस्ते परशुभिर्भिन्दिपालासिपट्टिशैः ॥53॥

नाशयन्तो‌உअसुरगणान् देवीशक्त्युपबृंहिताः।
अवादयन्ता पटहान् गणाः शङां स्तथापरे ॥54॥

मृदङ्गांश्च तथैवान्ये तस्मिन्युद्ध महोत्सवे।
ततोदेवी त्रिशूलेन गदया शक्तिवृष्टिभिः॥55॥

खड्गादिभिश्च शतशो निजघान महासुरान्।
पातयामास चैवान्यान् घण्टास्वनविमोहितान् ॥56॥

असुरान् भुविपाशेन बध्वाचान्यानकर्षयत्।
केचिद् द्विधाकृता स्तीक्ष्णैः खड्गपातैस्तथापरे ॥57॥

विपोथिता निपातेन गदया भुवि शेरते।
वेमुश्च केचिद्रुधिरं मुसलेन भृशं हताः ॥58॥

केचिन्निपतिता भूमौ भिन्नाः शूलेन वक्षसि।
निरन्तराः शरौघेन कृताः केचिद्रणाजिरे ॥59॥

शल्यानुकारिणः प्राणान् ममुचुस्त्रिदशार्दनाः।
केषाञ्चिद्बाहवश्चिन्नाश्चिन्नग्रीवास्तथापरे ॥60॥

शिरांसि पेतुरन्येषाम् अन्ये मध्ये विदारिताः।
विच्छिन्नजज्घास्वपरे पेतुरुर्व्यां महासुराः ॥61॥

एकबाह्वक्षिचरणाः केचिद्देव्या द्विधाकृताः।
छिन्नेपि चान्ये शिरसि पतिताः पुनरुत्थिताः ॥62॥

कबन्धा युयुधुर्देव्या गृहीतपरमायुधाः।
ननृतुश्चापरे तत्र युद्दे तूर्यलयाश्रिताः ॥63॥

कबन्धाश्चिन्नशिरसः खड्गशक्य्तृष्टिपाणयः।
तिष्ठ तिष्ठेति भाषन्तो देवी मन्ये महासुराः ॥64॥

पातितै रथनागाश्वैः आसुरैश्च वसुन्धरा।
अगम्या साभवत्तत्र यत्राभूत् स महारणः ॥65॥

शोणितौघा महानद्यस्सद्यस्तत्र विसुस्रुवुः।
मध्ये चासुरसैन्यस्य वारणासुरवाजिनाम् ॥66॥

क्षणेन तन्महासैन्यमसुराणां तथा‌உम्बिका।
निन्ये क्षयं यथा वह्निस्तृणदारु महाचयम् ॥67॥

सच सिंहो महानादमुत्सृजन् धुतकेसरः।
शरीरेभ्यो‌உमरारीणामसूनिव विचिन्वति ॥68॥

देव्या गणैश्च तैस्तत्र कृतं युद्धं तथासुरैः।
यथैषां तुष्टुवुर्देवाः पुष्पवृष्टिमुचो दिवि ॥69॥

जय जय श्री मार्कण्डेय पुराणे सावर्निके मन्वन्तरे देवि महत्म्ये महिषासुरसैन्यवधो नाम द्वितीयो‌உध्यायः॥

आहुति
ॐ ह्रीं साङ्गायै सायुधायै सशक्तिकायै सपरिवारायै सवाहनायै अष्टाविंशति वर्णात्मिकायै लक्श्मी बीजादिष्टायै महाहुतिं समर्पयामि नमः स्वाहा ।

Lord Devi Mahatmyam Navaavarna Vidhi in Sanskrit

Devi Mahatmyam Navaavarna Vidhi – Sanskrit Lyrics (Text)

Devi Mahatmyam Navaavarna Vidhi – Sanskrit Script

रचन: ऋषि मार्कण्डेय

श्रीगणपतिर्जयति । ॐ अस्य श्रीनवावर्णमन्त्रस्य ब्रह्मविष्णुरुद्रा ऋषयः,
गायत्र्युष्णिगनुष्टुभश्छन्दांसि श्रीमहाकालीमाहालक्ष्मीमहासरस्वत्यो देवताः,
ऐं बीजं, ह्रीं शक्ति:, क्लीं कीलकं, श्रीमहाकालीमाहालक्ष्मीमहासरस्वतीप्रीत्यर्थे जपे
विनियोगः॥

ऋष्यादिन्यासः
ब्रह्मविष्णुरुद्रा ऋषिभ्यो नमः, मुखे ।
महाकालीमाहालक्ष्मीमहासरस्वतीदेवताभ्यो नमः,हृदि । ऐं बीजाय नमः, गुह्ये ।
ह्रीं शक्तये नमः, पादयोः । क्लीं कीलकाय नमः, नाभौ । ॐ ऐं ह्रीं क्लीं चामुण्डायै
विच्चे — इति मूलेन करौ संशोध्य

करन्यासः
ॐ ऐम् अङ्गुष्ठाभ्यां नमः । ॐ ह्रीं तर्जनीभ्यां नमः । ॐ क्लीं मध्यमाभ्यां
नमः । ॐ चामुण्डायै अनामिकाभ्यां नमः । ॐ विच्चे कनिष्ठिकाभ्यां नमः । ॐ ऐं
ह्रीं क्लीं चामुण्डायै विच्चे करतलकरपृष्ठाभ्यां नमः ।

हृदयादिन्यासः
ॐ ऐं हृदयाय नमः । ॐ ह्रीं शिरसे स्वाह । ॐ क्लीं शिखायै वषट् । ॐ चामुण्डायै
कवचाय हुम् । ॐ विच्चे नेत्रत्रयाय वौषट् । ॐ ऐं ह्रीं क्लीं चामुण्डायै विच्चे
अस्त्राय फट् ।

अक्षरन्यासः
ॐ ऐं नमः, शिखायाम् । ॐ ह्रीं नमः, दक्षिणनेत्रे । ॐ क्लीं नमः, वामनेत्रे । ॐ
चां नमः, दक्षिणकर्णे । ॐ मुं नमः, वामकर्णे । ॐ डां नमः,
दक्षिणनासापुटे । ॐ यैं नमः, वामनासापुटे । ॐ विं नमः, मुखे । ॐ च्चें
नमः, गुह्ये ।
एवं विन्यस्याष्टवारं मूलेन व्यापकं कुर्यात् ।

दिङ्न्यासः
ॐ ऐं प्राच्यै नमः । ॐ ऐम् आग्नेय्यै नमः । ॐ ह्रीं दक्षिणायै नमः । ॐ ह्रीं
नै‌ऋत्यै नमः । ॐ क्लीं पतीच्यै नमः । ॐ क्लीं वायुव्यै नमः । ॐ चामुण्डायै
उदीच्यै नमः । ॐ चामुण्डायै ऐशान्यै नमः । ॐ ऐं ह्रीं क्लीं चामुण्डायै विच्चे
ऊर्ध्वायै नमः । ॐ ऐं ह्रीं क्लीं चामुण्डायै विच्चे भूम्यै नमः ।

ध्यानम्
ॐ खड्गं चक्रगदेषुचापपरिघाञ्छूलं भुशुण्डीं शिरः
शङ्खं सन्दधतीं करैस्त्रिनयनां सर्वाङ्गभूषावृताम् ।
नीलाश्मद्युतिमास्यपाददशकां सेवे महाकालिकां
यामस्तौत्स्वपिते हरौ कमलजो हन्तुं मधुं कौटभम् ॥

ॐ अक्षस्रक्परशू गदेषुकुलिशं पद्मं धनुः कुण्डिकां
दण्डं शक्तिमसिं च चर्म जलजं घण्टां सुराभाजनम् ।
शूलं पाशसुदर्शने च दधतीं हस्तैः प्रवालप्रभां
सेवे सैरिभमर्दिनीमिह महालक्ष्मीं सरोजस्थिताम् ॥

ॐ घण्टाशूलहलानि शङ्खमुसले चक्रं धनुः सायकम् ।
हस्ताब्जैर्धधतीं घनान्तविलसच्छीतांशुतुल्यप्रभाम् ।
गौरीदेहसमुद्भवां त्रिजगताधारभूतां महा ।
पूर्वामत्र सरस्वतीमनुभजे शुम्भादिदैत्यार्धिनीम् ॥

ॐ मां मालें महामाये सर्वशक्तिस्वरूपिणि ।
चतुर्वर्गस्त्वयि न्यस्तस्तस्मान्मे सिद्धिदा भव ॥

ॐ अविघ्नं कुरु माले त्वं गृह्णामि दक्षिणे करे ।
जपकाले च सिद्ध्यर्थं प्रसीद ममसिद्धये ॥

ऐं ह्रीम् अक्षमालिकायै नमः ॥ 108 ॥

ॐ मां मालें महामाये सर्वशक्तिस्वरूपिणि ।
चतुर्वर्गस्त्वयि न्यस्तस्तस्मान्मे सिद्धिदा भव ॥

ॐ अविघ्नं कुरु माले त्वं गृह्णामि दक्षिणे करे ।
जपकाले च सिद्ध्यर्थं प्रसीद ममसिद्धये ॥

ॐ अक्षमालाधिपतये सुसिद्धिं देहि देहि सर्वमन्त्रार्थसाधिनि
साधय साधय सर्वसिद्धिं परिकल्पय परिकल्पय मे स्वाहा ।

ॐ ऐं ह्रीं क्लीं चामुण्डायै विच्चे ॥ 108 ॥

गुह्यातिगुह्यगोप्त्री त्वं गृहाणास्मत्कृतं जपम् ।
सिद्धिर्भवतु मे देवि त्वत्प्रसादान्महेश्वरि ॥

ॐ अक्षमालाधिपतये सुसिद्धिं देहि देहि सर्वमन्त्रार्थसाधिनि
साधय साधय सर्वसिद्धिं परिकल्पय परिकल्पय मे स्वाहा ।
गुह्यातिगुह्यगोप्त्री त्वं गृहाणास्मत्कृतं जपम् ।
सिद्धिर्भवतु मे देवि त्वत्प्रसादान्महेश्वरि ॥

करन्यासः
ॐ ह्रीम् अङ्गुष्ठाभ्यां नमः । ॐ चं तर्जनीभ्यां नमः । ॐ डिं मध्यमाभ्यां
नमः । ॐ काम् अनामिकाभ्यां नमः । ॐ यैं कनिष्ठिकाभ्यां नमः । ॐ ह्रीं
चण्डिकायै करतलकरपृष्ठाभ्यां नमः ।

हृदयादिन्यासः
खड्गिनी शूलिनी घोरा गदिनी चक्रिणी तथा ।
शङ्खिनी चापिनी बाणभुशुण्डी पैघायुधा । हृदयाय नमः ॥

ॐ शूलेन पाहि नो देवि पाहि खड्गेन चाम्बिके ।
घण्टास्वनेन नः पाहि चापज्यानिःस्वनेन च । शिरसे स्वाहा ॥

ॐ प्राच्यां रक्ष प्रतीञ्च्यां च रक्ष चण्डिके रक्ष दक्षिणे ।
भ्रामणेनात्मशूलस्य उत्तरस्यां तथेश्वरि । शिखायै वषट् ॥

ॐ सौम्यानि यानि रूपाणि त्रैलोक्ये विचरन्ति ते ।
यानि चात्यर्थघोराणि तै रक्षास्मांस्तथा भुवम् । कवचाय हुम् ॥

ॐ खड्गशूलगदादीनि यानिचास्त्राणि ते‌உम्बिके ।
करपल्लव सङ्गीनि तैरस्मान् रक्ष सर्वतः । नेत्रत्रयाय वौषट् ॥

ॐ सर्वस्वरूपे सर्वेशे सर्वशक्तिसमन्विते ।
भयेभ्यस्त्राहि नो देवि दुर्गे नमो‌உस्तुते । अस्त्राय फट् ॥

ध्यानम्
ॐ विद्युद्दामप्रभां मृगपतिस्कन्धस्थितां भीषणाम् ।
कन्याभिः करवालखेटविलसद्धस्ताभिरासेविताम् ।
हस्तैश्चक्रगदासिखेटविशिखांश्चापं गुणं तर्जनीम् ।
बिभ्राणामनलात्मिकां शशिधरां दुर्गां त्रिनेत्रां भजे ॥
Related Posts Plugin for WordPress, Blogger...